________________
आचार: दिनकरः
विभागः२ गणिपदप्रदान विधि:
॥१२४॥
SAHASR-
54254
2ी पुष्पाक्षतैः संपूज्य त्रिः पोडशाक्षरी परमेष्ठिविद्यां दद्यात् । संपूजनार्थमष्टादशवलयं परमेष्ठिमन्त्र चक्रपटं च
दद्यात् । तत एकवेलं लघुनन्दीपाठः, चतुर्विधसङ्घस्य वासदानं, सर्वेपि तच्छिरसि वासाक्षतान्निक्षिपन्ति । ततो गुरुद्धिगुणपादप्रोग्छनोपविष्टायास्तस्या अनुज्ञां ददाति । यथा-"व्रतिनीवाचनादानं साध्वीनां च प्रवतनम् । धर्मव्याख्यापि सततं साधूनामुपधिक्रिया ॥१॥ उपधिग्रहणं चैव साधुसाव्योश्च शिक्षणम् । श्राद्धप्रायोस्तपोनुज्ञा कार्या वत्से सदा त्वया ॥२॥” इति प्रवर्तिन्यां गुर्वाज्ञाः। अथ निषेधाः---व्रतिन्या व्रतदानं च वन्दनकादिदापनम् । कम्बलायुपवेशश्च व्रतानुज्ञा तथैव च ॥१॥ इत्यादि वर्जनीयं तु वत्से विनतया त्वया । गुरोमहत्तरायाश्च लडनीयं च वो नहि ॥ २॥" ततः साध्व्यः श्रावकश्राविकास्तां वन्दन्ते श्राविका वन्दनकं न ददति ॥ ईत्याचार्यश्रीवर्द्धमानसूरिकते आचारदिनकरे यतिधर्मोत्तरायणे प्रवर्तिनीपदस्थापना कीर्तनो नाम उदयः॥ २८ ॥
अथ महत्तरापदस्थापनाविधिभिधीयते। महत्तरापदनीं यथा-"कुरूपा खण्डिताङ्गी च हीनान्वयसमुद्भवा । मृढा दुष्टा दुराचारा सरोग। कटुभाषिणी ॥ १ ॥ सर्वकार्येष्वनभिज्ञा कुमुहर्तोद्भवा तथा । कुलक्षणाचारहीना युज्यते न महत्तरा ॥२॥"
For Private & Personal Use Only
||१२४॥
Jain Education inte
lainelibrary.org DH