________________
कृतयोगा धृतागमा। प्रियंवदा प्राञ्जला च दयाकृतमानसा ॥१॥ धर्मोपदेशनिरता सस्नेहा गुरुगच्छयोः । शान्ता विशुद्धशीला च क्षमावत्यतिनिर्मला ॥२॥ निःसङ्गा लिखनाघेषु कार्येषु सततोद्यता। धर्मध्वजाद्युपधिषु करणीयेषु सत्तमा ॥३॥ विशुद्ध कुलसंभूता सदा स्वाध्यायकारिणी । प्रवर्तिनीपदं सा तु व्रतिनी ध्रुवमर्हति ॥ ४॥ इति प्रवर्तिनीपदयोग्यव्रतिनीलक्षणम् ॥ प्रवर्तिनीपदस्थापनाविधिरभिधीयते । यथोक्तगुणयुक्ताया तिन्याः कृतलोचायाः कृतप्रासुकस्तोकजलस्नानायाः श्राद्धजनकृतेन महता महोत्सवेन प्रवर्तिनीपदग्रहणं विधीयते । तत्र समवसरणस्थापनं प्रवर्तिनी पूर्ववत् त्रिः समवसरणं प्रदक्षिणयेत् ततः सदशवेषरजोहरणमुखवस्त्रिकाधारिणी क्षमाश्रमणपूर्व निषद्यासीनस्य गुरोर्भणति "इच्छाकारेण तुम्हे अमं पवतिणीपयारोवणियं नंदिकट्टावणियं वासक्खेवं करेह चेहआई च वंदावेह" ततो गुरुवर्द्धमानविद्याभिमन्त्रितवासैर्वासक्षेपं करोति । ततो गुरुप्रवर्तिन्यो वर्द्धमानाभिः स्तुतिभिश्चेत्यवन्दनं कुरुतः । श्रुतशान्तिक्षेत्रक्षेत्रादिदेवताकायोत्सर्गस्तुतिकथनानि पूर्ववत् । ततः "प्रवत्तिणीपयारोवणियं करेमि काउस्सग्गं अन्नस्थ ऊ. यावदप्पाणं वो" कायोत्सर्गश्चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवमणनं । ततः प्रवतिनी मुखवस्त्रिका प्रतिलिख्य द्वादशवर्तवन्दनं ददाति, ततः क्षमाश्रमगपूर्व भणति “इच्छाकारेण तुम्हे अमं गच्छसाइसाहुणीपवत्तणं अणुजाणह" गुरुः कथयति "अणुजाणामि" ततः पक्षमाश्रमणयुक्तिगुरुवचनयुक्तिश्च पूर्ववत् । ततः संप्राप्तायामाचार्य पदोचितायां लग्नवेलायां गुरुः प्रवर्तिन्या दक्षिणकर्ण गन्ध
RSHASIRAHASKACHAR
Jan Education in
For Private & Personal Use Only
O
jainelibrary.org