________________
भाचारदिनकरः
विभागः२ गणिपदप्रदान विधिः
॥१२२॥
ESCOGRICOURSES
प्रतिमां पालयति । तत्राहार एकदत्या, एकैव दत्तिः पानस्य भोजनस्य वा, कदाचित् पानस्य कदाचिदोजनस्य, कदाचिद्दत्तियुक्त्या लब्धेन पानेन दिनमतिवाहयति । कदाचिद्भोजनेन दत्तियुक्तिलब्धेन आस्वादमात्रेण, द्वयोरलामे संतोष एव । इति एकमासिकी प्रतिमा प्रथमा १ द्वितीया द्वमासिकी अनयैव युक्त्या, तत्र दे दत्ती, एका पानस्य द्वितीया भोजनस्य २ तृतीया त्रैमासिकी तथैव, तत्र तिस्रो दत्तयः, वे भोजनस्य एका पानस्य, अथवा द्वे पानस्य एका भोजनस्य, मासत्रयमेव ३ चतुर्थी चातुर्मासिकी, मासचतुष्टयमित्थमेव, तत्र चतस्रो दत्तयः, द्वे पानस्य द्वे भोजनस्य ४ पञ्चमी प्रतिमा पाश्चमासिकी, पञ्चमासान् यावत्त| थैव, तत्र पश्च दत्तयः, तिम्रो भोजनस्य दे पानकस्य, अथवा वे भोजनस्य तिम्रः पानकस्य ५ षष्ठी प्रतिमा पाण्मासिकी षण्मासान् यावत्तथैव, तत्र षड् दत्तयः, तिम्रो भोजनस्य तिस्रः पानस्य ६ सप्तमी प्रतिमा साप्तमासिकी, सप्तमासान यावत्तथैव, तत्र सप्त दत्तयः, चतस्रो भोजनस्य तिस्रः पानस्य, अथवा चतस्रः पानस्य तिस्रो भोजनस्य ७ एतासु सप्तस्वपि प्रतिमासु उक्तदत्तीनां नूनं ग्रहणं विधेयं, न प्राणान्तेप्यधिकदत्तिग्रहणम् । उक्तदत्तीनामलाभे संतोष एव इति सप्त प्रतिमाः, तत्र अष्टमी प्रतिमा सप्ताहोरात्राणि पूर्वमेकभक्तं, प्रथमदिने द्वितीयदिने अपानकोवासः, तृतीये एकभक्तं, चतुर्थे अपानकोपवासः, पश्चमे एकभक्तं, | षष्ठे अपानकोपवासः, सप्तमे एकभक्तम्, इति चतुर्थत्रयतपसा समाप्यते । तत्रैकभक्तेपूज्झितभिक्षाग्रहणं, सप्ताहोरात्रं सर्वपरीषहोपसर्गसहः कायोत्सर्गोत्तानासनस्थो निष्प्रकम्पो गमयेत् । भिक्षाग्रहणवर्जितं सदैव
BESISUOSEXUA
॥१२२॥
Jain Education inte
For Private & Personal use only
nelibrary.org