________________
S
हतमते लोकोत्तरपुरुषाचीर्णत्वादाचारःप्रमाणं । तत्त्वानुवादेऽपि (य आश्रवः संवरश्च) आश्रवे शुभाशुभचारिणो मनोवाकायैः शुभाशुभं कर्म बध्नन्ति, अत एव आचाररूप आश्रवः संवरश्च द्रव्यभावभेदेन क्रियातत्त्यागादाचाररूप एव । सौगतानां च मते सुखासिकाप्रभृतयः शरीरकार्याचारा बुद्धार्चनरूपाश्च किया मन्त्रस्मरणादयश्च शून्यवादेऽप्याचारमश्चन्ति । वैशेषिकाणां च मते विशेषपरीक्षाचारो यः स एव पूर्वमाचारस्य स्थापनाहेतुः । यदुक्तं, नहि क्रियात्मिक परीक्षां विहाय विशेषज्ञानमिति । नैयायिकानां तु मते प्रमाणोपलंभरूपो न्याय इति । स च प्रमाणोपलंभो नहि क्रियाप्रतिपत्तिभिविना भूत इति तन्नैयायिकादिष्याचार एव प्रमाणं । साङ्कन्धानां तु तत्त्ववादे प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पङ्ग्वन्धयोरिव स प्रथममेवाचारान्तर्भूतः। चार्वाकाणां तु मते सर्वत्र नास्तिवादे सर्व शुभमाचाररूपत्व एव प्रतिपाद्यते । तदेवं षट्स्वपि दर्शनेषु आचार एवं प्रमाणं । तदलं परमतालोकचिन्ताभिः । सांप्रतं प्रस्तुतकार्यसमर्थनाय स्वमतमेव प्रामाण्यं प्राप्यते । यदुक्तमागमे"नाणं सव्वत्थमूलं च साहा खंधा अदंसणं । चारित्तं च फलं तस्स रसो मुक्खो जिणोइओ॥१॥" अतश्च सिद्धान्तमहोदधिकल्लोलरूपं चारित्रव्याख्यानं केन वक्तुं शक्यते ? तथापि श्रुतकेवलिप्रणीतशास्त्रार्थलेशमवलम्ब्य किश्चिदाचारयोग्यं वचः प्रस्तूयते । स चाचारो द्वेधा यत्याचारो गृहस्थाचारश्च । यदुक्तं
१ “शारीरिकाचारा" इत्यपि पाठः । २ शून्यमिति बहुषु पुस्तकेषु । ३ एवकारो भिन्नक्रमः प्रमाणमित्यस्याने द्रष्टव्यः ।
AROSASUR
Jan Educati
o
nal
For Private & Personal Use Only
Miw.jainelibrary.org