________________
ग्राह्या सैवान्यस्मिन् दिने शुभा ॥२६॥ नवनीतेन जीर्णेन तद्दिने कृतमन्जनं । या विभत्ति न तत्पाणे यात्पानभोजने ॥ २७ ॥ बालवत्सा निजं बालं विमुच्यते स्तनपायिनम् । भिक्षां ददाति सानीं योग्या चास्तनपायिनम् ॥२८॥ एवं च गोमनुष्यादेः सा चेदोजनदायिकः । गृहीयात्तत्करे नानं तदभावे च कल्पते ॥२९॥ शिलाकाष्टकपाटादि यत्स्पृष्टं स्याद्कल्पितैः । न स्प्रष्टव्यं तच्च तैस्तु विहीनं स्पर्शमर्हति ॥३०॥ शुष्कास्थिचर्मदशनस्पर्शो यदि कदाचन । जायते तत्र कुर्वीत कायोत्सर्ग च पूर्ववत् ॥३१॥ सन्निधिश्वानमार्जाराधाकर्मवृषमानुषैः । महिषाश्वताम्रचूडकरिभिश्चैव घट्टितैः ॥३२॥ व्रतोपघातो जायेत तथान्यकरणादपि । पात्रोपकरणादौ च कणमात्रस्थितेरपि ॥३३॥ नाण प्रासुकेनापि पाणिना वस्तुनो ग्रहः । जलेन युज्यते चाधाकर्म स्पृष्ट्वा ततः परम् ॥३४॥ व्याख्यानपाठस्तुत्यादि कर्त्तव्यं गुर्वनुज्ञया । अनुप्रेक्षापरिवृत्तिः करणीया यथोचिता ॥ ३५॥ उपर्युपरि भाण्डेभ्यश्चतुः पञ्चभ्य एव च । ग्राह्य चोपरिभाण्डस्थं वस्तु नाधःस्थमेव च ॥३६॥ परात्परस्थेभ्य एव तिर्यग भाण्डेभ्य उत्तमः । गृह्णीयाद द्वित्रिभाण्डेभ्यो न परेभ्यः कदाचन ॥३७॥ पायसं शर्कराखण्डं दुग्धं काक्षिकमेव च । तिलचूर्णं तिलपिण्डं पिण्याकं वासरे परे ॥ ३८॥ आत्मार्थ गृहिभिः क्षिप्तं वर्जयेत्(तद)घृतादिना । तत्कल्पतेऽन्यदिवसे नालिकेरघृतादिकम् ॥३०॥ नालिकेरस्य खण्डं च द्राक्षा सर्व च पानकम् । शुण्ठी कृष्णामरिचादि तद्दिने कल्पते यतेः ॥४०॥ दधिकलुप्तं करंवादि शिखरिण्यादि तद्दिने । न कल्पते चान्यदिने कल्पते तन्महात्मनाम् ॥४१॥ तकराई घृतराद्धं कल्पते व्यञ्जनं
.
मा. दि.१६
श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org