________________
कापि च समण्डला कालदण्डी च ॥२॥ आचारशास्त्रपुस्तकमय नन्द्यावाससमवसरणादि । प्रासुकजलसामग्री वस्त्रमपि विषट्पदीकं च ॥३॥ निर्दन्ततृप्तिकरणं निप्रथमप्रहरजलपरित्यागः । इत्यादि चोपकरणं योगोढहने प्रगुणमिष्टम् ॥ ४॥" योगोदहन कालो यथा-"सुभिक्षं साधुसामग्री सर्वोत्पाताद्यभाषता। कालिकेपूत्कालिकेषु योगेषु समयो ह्ययम् ।।१॥ आर्द्रादिस्वात्यन्ते नक्षत्रगणे विवस्वता युक्ते । कालिकयोगानामयनुपयोगी काल उद्दिष्टः । २॥ आादिस्वात्यन्ते नक्षत्रगणे विवस्वता मुक्ते । स्तनिते विद्युति वृष्टौ कालग्रहणं न कर्त्तव्यम् ॥३॥” अथ योगोबहने चर्या यथा-"रजन्याः प्रथमे याने चरमे च सदा यतेः। जागरो योगवाही तु जागयेव क्षणे क्षणे ॥१॥ हास्यकन्दर्पविकथाशोकरत्यरतीस्त्यजेत् । पञ्चविंशतिकोदण्डमानभूमेः परं मुनिः ॥२॥ नैकाकी याति सततं योगवाही विशेषतः । धनुःशते लडिन्ते तु साधोराचाम्लमादिशेत् ॥३॥ सीवनं लेपकरणं रचनामुपधेरपि । वर्जयेत्सर्वयोगेष्वप्यागाढेषु विशेषतः॥४॥ | ताम्रसीसकांस्यलोहनपुरोमनखादिकम् । चर्मादि न स्पृशेत् स्पृष्टौ कायोत्सर्गो विधीयते ॥५॥ अस्पृष्टावप्येकवेलं दन्तायुत्सर्गसंज्ञया । कायोत्सर्गे नमस्कारं तत्रैकं च स्मरेन्मुनिः ॥६॥ योगोद्वहनमध्ये तु केशरोननखादिकम् । नोत्सृजेत्प्रातरुत्सर्गे विधातव्योऽप्ययं विधिः ॥७॥ मुखवस्त्रं प्रतिलिख्य द्वादशावतवन्दनम् । दत्वा चैव तत्सर्गः कायोत्सर्गश्च पूर्ववत् ॥८॥ योगवाही पाणहार प्रत्याख्यान दिने दिने । रात्रिप्रतिक्रमणान्ते कुर्यात् प्रातर्यथोचितम् ॥९॥ अपूर्वपठनं चैव कुर्यात्पूर्व न विस्मरेत् । उपधि पात्रब
Jain Educati
o nal
For Private & Personal Use Only
Twww.jainelibrary.org