SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर : ॥ ८९ ॥ Jain Education भावो योदोहने मुनिर्योग्यः ||४|| अथ गुरुलक्षणं-आर्या- "शान्तो दयालुरशठः प्रियवाक् षट्त्रिंशता गुणैर्युक्तः । आर्जव मार्दवसदनं कृतयोगः समयवित् सम्यक् ॥ १॥ परमार्थज्ञः कुशलो जितनिद्रालस्य मोहमदमायः । सानन्दः शिष्यान् प्रति योगो हने गुरुः कार्यः ||२|| सहायलक्षणं यथा-आर्या - "जितनिद्रालस्यक्षुत्कृतयोगः स्नेहवान् गुणेषु रतः । उद्यमवान् सदयमतिर्जितविषयकषायपरमरिपुः || १|| बहागमविद् बहुसत्वसंयुतो बहुकलासु विमलमतिः । नीरुक् प्रसन्नचेता योगोद्वहने सहायः स्यात् ||२||" अत्र सहायाः - दण्डधर सङ्घहकवारिभिक्षानेतृ सर्वस्मृतिकारकधर्मोपदेशशब्दरूपाः) । क्षेत्रलक्षणं यथा - आर्या - "बहुसलिलमृदुलभिक्षं स्वचक्रपरचक्रभयविनिर्मुक्तम् । बहुयतिसाध्वीश्राद्धं बहुशास्त्रविशारदाकीर्णम् ॥ १ ॥ नीरोगजलान्नयुतं चर्मास्थिकचादिसङ्करविमुक्तं । अहिजंबुकवृषदंशकवृषपल्लीसरवनिर्मुक्तम् ॥ २ ॥ प्रायः पवित्ररथ्यं रुग्मारीप्रभृतिवजितं नित्यम् । अल्पकषायपुरजनं योगोद्रहने शुभं क्षेत्रम् ॥ ३ ॥" वसतिलक्षणं यथा - "चर्मास्थिदन्तनखharमूत्रापवित्रतारहितम् । अध उपरि च निश्छिद्धं निरवकरं दृष्टमृष्टं च ॥ १ ॥ सूक्ष्म ङ्गिवृन्दसंवासयोग्यभूस्फोटवर्जितं परितः । रम्यमपरार्थरचितं योगोदहने शुभं सदनम् ॥ २ ॥” मूत्रपुरीषोत् सर्गस्थण्डिललक्षणं यथा - " निर्जनमजन्तुजातं जलहरित तृणाहिबिलरहितम् । वीजादिक्ष्ममुक्तं स्थण्डिलमत्र प्रशस्य स्यात् ॥ १ ॥" योगोद्वहने उपकरणानि यथा - "त्काल वुमयं पात्रं सुविलिप्तमञ्जसा पूतम् । तद्वेष्टमब न्धनमपि नवीनमतिनिर्मलं बहुलम् ॥ १ ॥ नव्या च पात्ररज्जुः संस्तारकमुत्तमं सवस्त्रं च । लघ्वी मार्जनि For Private & Personal Use Only विभागः २ योगोद्वहनविधिः. ॥ ८९ ॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy