________________
૪૫
Jain Education Inter
ॐ अर्ह नमः
शासन सम्राट् प. पू. आ. श्री विजयनेमिसूरीश्वर सद्गुरुभ्यो नमः श्री वर्धमानसूर विरचितः ।
आचारदिनकरः । द्वितीयो विभागः ॥
॥ अथ योगोद्वहनविधिः ॥ ( परंपरा सामानुचार्य सारिणी)
मनोवाक्कायानां तपःसमाधौ योजनं योगः अथवा सिद्धान्तवाचनायामन्यविहितया तपसा योजनं योगः ते चागमोहन बहुविधाः तेषां निरूद्धपारणककालस्वाध्यायादिभिरुद्धहनं योगोद्वहनं । कीदृशः साधुaise योग्यो भवतीत्युच्यते कीदृशश्च गुरुः कीदृशाः सङ्घट्टसहायाश्च । कार्या निमित्तं कार्यमित्येष निर्देशक्रमः इति वचनात् । कार्यों योगवाही निमित्तं गुरुसहायक्षेत्रोपकरणकालभिक्षाग्रहादि कार्य योगोद्रहनं एतत्क्रमेण व्याख्यानमुच्यते । योगवाहिलक्षणं यथा-आर्या- "मौनी परीषहसहो मानरुषालोभकपटनिमुक्तः । बलवान् समदृष्टिश्च क्षितिपतिरङ्कारिमित्रादौ ॥ १ ॥ गुरुभक्तिकृन्महात्मा प्रसन्नवाङ्मनसकायसंयोगः । पट्वन्द्रियो दयालुः श्रुतशास्त्रानेकपरमार्थः || २ || लज्जासत्त्वसमेतो विरक्तधीर्जिततृषानिद्रः । अस्खलितब्रह्मधरः प्रायश्चित्तक्षता घगणः ॥ ३॥ वाह्याभ्यन्तररसलोभवर्जितो निर्जितान्तरङ्गरिपुः । त्यक्तान्यकृत्य
For Private & Personal Use Only
ainelibrary.org