________________
Jain Education
कप्पए पुरिसो ॥ १ ॥ " परसमयेऽपि - "दिजातिः शौचवान् विद्वान् स्वङ्गः शान्तो जितेन्द्रियः । विषयेभ्यो विरक्तश्च नरः संन्यासमर्हति ॥ १ ॥ तथा च - " गार्हस्थ्यं ब्रह्मचर्ये च क्षुल्लकत्वमुपास्य च । व्रताय कल्पते देही ब्रह्मचापि कुत्रचित् ॥ १ ॥” गृही पालितगार्हस्थ्यतुलितब्रह्मचर्यः पूर्णीकृतक्षुल्लकत्वो यदि न प्रत्रज्याग्रहणे प्रभवति तदा तस्य पुनर्गार्हस्थ्यमुचितं प्रव्रज्याग्रहणे तु न पुनर्गार्हस्थ्यं । यदुक्तमागमे - "बालत्ते ब्रम्हवरिते गित्यत्ते विहुवणे । गहिऊण वयं पच्छा मरणेवि न मोयये ॥ १ ॥ " यथा विध्युपनीतस्य बालस्यापि ब्रह्मचारिणो व्रतदानं युज्यते । अत्र कर्मणि गुरुः पूर्वोक्त एव । यदुक्तमागमे - "आयरिअउवज्झाओ पवत्तओ तहयवायणायरिओ । गीयत्थो वा साहू पव्वज्जं दिज्जूअ वराणं ॥ १ ॥ जेसिं वंदणकम्मं किजई साहिंसा । पित्तेपवज्जादाणे गुरुणो जुत्ता न अन्नेवि || २ ||" गच्छसमाचारी विशेषेण आचार्यैरेव प्रव्रज्या दीयते क्वचिदुपाध्यायैरपि तत्र गुरुक्रमः प्रमाणं । तद्विधिरुच्यते - " दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करः ओत्रं पौष्णं ब्राह्मोत्तरात्रयम् ॥ १ ॥ समदोषोज्झिते धिष्ण्ये वारे शुक्रकुजोज्झिते। तिथिष्वदोषासु वर्षमासवासरशुद्धितः ॥ २ ॥ गोचरस्य विशुद्धौ च द्वयोश्चन्द्रबले तथा । जन्मादिमासत्यागे च सौजन्ये गुरुशिष्ययोः ॥ ३ ॥ लग्ने शुभे सर्वबलयुक्ते गुरुबलान्विते । यथोक्तगुणयुक्तस्य गुरुभिर्दीयते व्रतम् ॥ ४ ॥ भृगोरुदयवारांशभुवनेक्षणपश्चके । चन्द्रांशोदयवारे च दर्शने च न दीक्षयेत् ॥५॥ व्येकादशपञ्चमे दिनकर स्त्रियायषष्ठे शशी लग्नात्सौम्यकुजौ शुभावुपचये केन्द्रत्रिकोणे गुरुः । शुक्रः
For Private & Personal Use Only
ww.jainelibrary.org