________________
आचारदिनकरः
F केवलं स्त्रीसेवा भोजनादिसर्वावस्थास्वपि संभोगः ७ पाक्षिकापाक्षिकः यस्य एकस्मिन् पक्षे कामोदयः न || विभागः१ द्वितीये ८ सौगन्धिकः सदा गलितशुक्रः स्वलिङ्गं जिघ्रति ९ आसक्तः पतितेऽपि वीर्ये नारीशरीरमालिङ्गय प्रव्रज्यातिष्ठति १० एते दश नपुंसकभेदाः संक्लिष्टा इति प्रव्रज्यायां अकल्पिताः। तत्रैषां दशविधानां कृतसंभोगा
विधिः नामपि पुंवेदोदययुक्तानां नपुंसकत्वं कथमित्युच्यते ? तथा चागमे-"अच्चंतं च अदुत्तं काम सेवंति पुरिसा जे। ते सव्वे विहं नेया नपुंसगं वेअमावन्ना ॥१" तथा च तत्वार्थटीकायां कामस्य वैकत्यमन्यासक्तिनपुंसकत्वं अतएव दशप्रकारा नपुंसकस्यामी वर्जनीयाः तृतीयप्रकृतेनपुंसकस्य वर्जनं क्लीबे इति पुरुषवर्जनमध्ये कथितं । विकलाङ्गा वर्जनीया यथा-"हत्थे पाए कहे नासा उडेवि वजिआ चेव । वामणगवडभकूजा पुंगुलटुंठा य काणा य ॥१॥ पच्छा विहंति विगला आयरियत्तं न कप्पए तेसिं। सीसो ठावेअव्वो वइत्तैव नन्नेसि ॥२॥" आजन्मकालाद्रा पश्चादा हस्तहीनाः पादहीना नासाहीना ओष्ठहीना वामना वडभाः कुब्जाः पङ्गवः ढूंटा काणाः प्रवज्यां न अर्हन्ति । तत्र वडभाः सङ्कुचितकरचरणाः शेषाः प्रसिद्धाः। कदाचित् पटुशरीरा अपि गृहीतदीक्षा गते काले हस्तहीनादिदोषान् प्राप्नुवन्ति तेषां सर्वगुरुगुणयुतानामपि नाचार्यत्वं कल्पते । शिष्यः काणकादिदोषसहितो व्रतित्व एव स्थाप्यो न पदमारोप्यः। इत्यदीक्षणीयाधिकारः । इत्यादिपूर्वदोषरहितो मार्दवार्जवक्षमानिधिः शमसंवेगनिर्वेदानुकंपास्तिक्ययुतो दीक्षायै ॥७७॥ कल्पते । यत उक्तमागमे-"सुद्धो जाइ कुलेणं स्वेणं तय उवसमी धीरो। संविग्गमणो तुट्टो पञ्चज्ज
Jain Education Intel
All
For Private & Personal Use Only
Msjainelibrary.org