________________
चर्यः क्षुल्लत्वत्रज्याद्यादाति । खण्डितव्रतस्तु पुनर्गार्हस्थ्यमुपगच्छति । इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायने ब्रह्मव्रतकीर्तनो नाम सप्तदश उदयः ॥ १७ ॥
अष्टादश उदयः।
अथ क्षुल्लकत्वविधिः। वर्षत्रयं पालितत्रिकरणशुद्विब्रह्मवतः शान्तरसप्रकृष्टबलतुलितशीलाङ्गभारः दीक्षां जिघृक्षुः ब्रह्मचारी क्षुल्लकत्वमर्हति । न केवलं पालितत्रिकरणशुद्धब्रह्मवतोऽप्यतुलितान्यचतुर्महावतः प्रव्रज्यापालने समर्थो भवति । संयमपालनं हि ब्रह्मचर्यपालनं चतुर्महात्रतपालनं विधाय कालक्रमेण सुकरं भवति । भगवानहन्नपि । प्रबजितुकामः सांवत्सरिकदानव्याक्षेपेन संवत्सरं महाव्रतपालनातुलनां करोति । ततो ब्रह्मत्रतपालनानन्तरं क्षुल्लकदीक्षा, यथा-पालितत्रिकरणशुद्धब्रह्मचर्यो वर्षत्रयान्ते क्षुल्लकत्वं गृह्णाति । तत्र यथा पूर्वोक्तगुणगुरुसमीपे दीक्षोपयोगितिथिवारक्षलग्नेषु शिष्यः कृतस्नानो मुण्डितशीर्षः शिखाधारी सोपवीतः निषधानिषण्णस्य गुरोः समीपे धृतमुखवस्त्रिका प्रतिक्रान्तेर्यापथः क्षमाश्रमणपूर्व भणति-"भयवं इच्छाकारेण तुन्भे अह्म पंचमहाव्वयाणं अवहिआरोपणं उदिसह । गुरुर्भणति-"आदिसामि।" ततः क्षुल्लकत्वालापेन
३८ Jain Education
anal
For Private & Personal Use Only
lww.jainelibrary.org