________________
हविणम्मि अचक्कहि अचक्कठिअलक्खमज्जपुत्तलिआ। विधेअव्वावस्सं उवसग्गपरिसहे जे ॥११॥ तिहयणजयप्पडागा अगिहियपुव्वा तहेव गहियव्वा । इअएवमाइसाहुण दुकरा होइ पवला ॥ १२॥" ततो व्रते सर्वत्रापि ब्रह्मचर्यमेव दुष्करं यदुक्तमागमे-"अक्खाणरसणी कम्माणमोहणी तह वयाण बंभवयं । गुत्तीणं य मणगुत्ती चउरा कडेण जिप्पंति ॥१॥” परसमयेऽपि-"ब्रह्मचर्य भवेन्मूलं सर्वेषां व्रतकर्मणाम् । ब्रह्मचर्येण भग्नेन व्रतं सर्व निरर्थकम् ॥१॥" दुष्करं ब्रह्मत्रतं यदुक्तं, गाथा-"दीसंते अणेगे उग्गखग्गसमरंगणे महाविसमे । भग्गे विसयलसिन्ने गंभीरा दायिणो धीरा ॥१॥ दिसंति सिंहपोरस निम्महणा दलिअमइगलगणावि । कंदप्पदप्पदलणे विरलच्चिअ केवि सप्पुरिसा ॥२॥” ततः पालितशुद्धसम्यक्त्वद्वादशवताचारः कृतचैत्यनिर्मापणजिनबिंबजिनागमचतुर्विधसङ्घविषयवहुद्रव्यव्ययः संपूर्णभोगाभिलाषः परमवैराग्यवासनः संपूर्णगार्हस्थ्यमनोरथः शान्तरसनिमग्नः कुलवृद्धसुतपत्नीस्वाम्यादिभिरनुज्ञातः प्रत्रज्या ग्रहणोत्सुकः श्राद्धो ब्रह्मवताय योग्यो भवति । तस्य चायं विधिः-प्रथमं शान्तिकं पौष्टिकं गुरुपूजा सङ्घपूजा च । ततः प्रव्रज्योपयोगिनि लग्नदिने श्राद्धो मुण्डितशीर्षः शिखासूत्रधारी महोत्सवेन विवाहोत्सवसदृशेन यथोक्तगुणगुरुसमीपे ब्रजेत् । तत्र गुरुर्नन्दिपूर्वकं सम्यक्त्वसामायिकदेशविरतिसामायिकारोपणं पूर्ववत्
१ शिष्योत्सुकैश्शिष्यसमूहेन स्थविरत्वमभिलषद्भिस्साधुसत्तमैरिदं विशेषणमभ्यसनीयम् । एतादृशशिष्यानुपलब्धेस्साधूसच्छेदागर्मोच्छेदः स्यादिति तु न शङ्कनीयम् अयोग्यसाधुसत्त्वेऽपि तदुच्छेदसंभवात् .
Jain Education in
For Private & Personal Use Only
R
ainelibrary.org