SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आचारः देनकरः विभागः१ अंत्यसं. ।७२ ।। मन्नभोजिनाम् ॥१॥" तत्र प्रेतप्रतिग्राहिभ्यो दानं ददति । ततः सर्वेऽपि स्नानं विधाय अनेन मार्गेण स्वगृहमायान्ति । तत्र तृतीयदिने चिताभस्म पुत्रायो नद्यां प्रवाहयन्ति तदस्थोनि तीर्थेषु स्थापयन्ति। ततस्तदिने स्नात्वा शोकापनोदं कुर्वन्ति । चैत्येषु गत्वा सपरिजना जिनबिंबमस्पृशन्तश्चैत्यवन्दनं कुर्वन्ति । ततो धर्मागारेष्वागत्य गुरुन् नमस्कुर्वन्ति । गुरवोऽपि संसारानित्यतारूपां धर्मव्याख्यां कुर्वन्ति । ततः सर्वेऽपि स्वस्वकार्य साधयन्ति । अन्त्याराधनमारभ्य शोकापनोदपर्यन्तं न मुहर्ताद्यवलोकनं अवश्यकर्तव्यत्वात् । मृतस्नात्रकरणं वर्जयेदेषु धिष्ण्येषु-"प्रेतक्रिया न कर्त्तव्या यमले च त्रिपुष्करे । आर्द्रामूलानुराधासुमिश्रक्रूरध्रुवेषु च ॥१॥ धनिष्ठापञ्चके वास्तृणकाष्ठादिसङ्ग्रहाः । शय्यादक्षिणदिग्यात्रामृतकार्यगृहोद्यमाः॥२॥" एषु कर्त्तव्यं च-"रेवती अवणसार्पवालिनीतिष्यहस्तपवनेन्दभेषु च। सौम्यवाक्पतिशनैश्चरेष्वपि प्रेतकर्म विबुधैर्निदिश्यते ॥ १॥ स्वस्वर्णानुसारेण सूतक मृतजातयोः। सदृशं गर्भपाते तु सूतकं स्यादिनत्रयम् ॥२॥ यतः-अन्यवंशे समुदभूते मृते जातेऽथ तद्गृहे । परिणीतसुतायाश्च सूतकान्नाशने तथा ॥३॥ एतेषु चैव सर्वेषु मृतकं स्यादिनत्रयम् । सूतकं सूतकं हन्ति जातं जातं मृतं मृतम् ॥ ४॥ अनन्नभोजिबालस्य मृतकं .स्याद्दिनत्रयम् । अनष्टवार्षिकस्यापि त्रिभागोनं च सूतकम् ॥५॥ स्वस्वर्णानुसारेण सतकान्ते जिनस्नपन सार्मिकवात्सल्यं च ततः कल्याणं । इत्याचार्य श्रीवर्द्धमानमारिकृते आचा. रदिनकरे गृहिधर्मपूर्वायने अन्त्यसंस्कारकीर्तनो नाम षोडश उदयः समाप्तः॥१६॥ SCOTCSCRCCOUNCE ॥७२॥ Jan Education R onal For Private & Personal Use Only RIwww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy