________________
भा. दि.१२
३४
Jain Education In
रथ विक्रममन्दिर । सिंहिकासुत पूजायामत्र सन्निहितो भव ॥ १ ॥ ॐ राहो इह० पूर्ववत् । ४ । शनिं प्रति वृत्तं - " फलिनीदलनीललीलयान्तःस्थगित समस्तवरिष्ठविषजात । रवितनय नय प्रबोधमेतान् जिनपूजाकरणैकसावधानान् ॥ १ ॥ ॐ शने इह० पूर्ववत् । ५ । चन्द्रं प्रति द्रुतविलंबितवृत्तपाठ: - "अमृतवृष्टिविनाशित सर्व दोपचितविघ्नविषः शशलाञ्छनः । वितनुतां तनुतामिह देहिनां प्रसृततापकरस्य जिना - चने ॥ १ ॥ ॐ चन्द्र इ० पूर्ववत् । ३ । बुधं प्रतिवृत्तं -- "बुध विबुधगणार्चितांत्रियुग्म, प्रमथितदैव विनीतदुष्ट शास्त्र | जिनवरणसमीपगोऽधुना त्वं रचय मतिं भवघातनप्रकृष्टाम् ॥ १ ॥ ॐ बुध इह० पूर्ववत् । गुरुं प्रति वृत्तं -- "सुरपतिहृदयावतीर्ण मंत्र, प्रचुरकलाविकलप्रकाशभास्वन् । जिनपतिचरणाभिषेककाले, कुरु वृहतीवर विघ्नविनाशम् ॥ १ ॥ ॐ गुरो इह० पूर्ववत् । ८ । क्रेतुं प्रति द्रुतविलंबितवृत्तपाठः- “निजनजोदय योगजगत्त्रयी, कुशलविस्तरकारणतां गतः । भवतु केतुरनश्वरसंपदा सतत हेतुरवारितविक्रमः ॥ ९ ॥ ॐ केतो इ० पूर्ववत् । ९ । क्षेत्रपालं प्रति आर्या - "कृष्णसित कपिलवर्णप्रकीर्ण कोपासितांfare सदा । ओक्षेत्रपाल पालय, भविकजनं विघ्नहरणेन ॥ १ ॥ ॐ क्षेत्रपाल ३० पूर्ववत् ॥ १० ॥ इति ग्रहक्षेत्रपालपूजा | विद्यादेवताशासनयक्षयक्षिणीसुरलोकाधिपतिपूजनं बृहत्स्नानविधौ कथयिष्यते प्रतिष्ठाशान्तिकपौष्ट्रिकोपयोगित्वात् । ततो जिनप्रतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमंत्रैरेव । ततः करे वस्त्रं गृहीत्वा वसन्ततिलकावृत्तपाठः – “त्यक्ताखिलार्थ वनितासुतभूरिराज्यो निःसङ्गतामुपगतो जगतामधीशः ।
For Private & Personal Use Only
Www.jainelibrary.org