________________
आचारः दिनकरः
SECRECERCOSCARRORS
जिनस्नपनदृष्टहृदः स्मरारेविघ्नं निहन्तु सकलस्य जगत्त्रयस्य ॥ १ ॥” ॐ ईशान इह पूर्ववत् ॥ ८॥ विभागः१ नागान् प्रति वैतालीयवृत्तपाठ:-"फणिमणिमहसा विभासमानाः कृतयमुनाजलसंश्रयोपमानाः। फणिन व्रतारोप. इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥१॥" ॐ नागा इह पूर्ववत् ।९। ब्रह्माणं प्रति द्रुतविलंबितपाठः-"विशदपुस्तकशस्तकरद्वयः, प्रथितवेदतया प्रमदप्रदः। भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं द्रुहिणो विभुः॥१॥" ॐ ब्रह्मन् इह शेषं पूर्ववत् । १०। एवं क्रमेणदिक्पालपूजनं । ततः पुनरपि पुष्पाञ्जलिं करे गृहीत्वा आर्यापाठ:-"दिनकरहिमकरभूसुतशशिसुतवृहतीशकाव्यरवितनयाः। राहो केतो सक्षेत्रपाल जिनस्वार्चने भवत सन्निहिताः ॥ १॥” इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिषेत् । ततः पूर्वादि-8 क्रमेण सूर्यशुक्रमङ्गलराहुशनिचन्द्रबुधवृहस्पतीन् स्थापयेत् , अधः केतुमुपरि क्षेत्रपालं च ततः सूर्य प्रति वसन्ततिलकापाठ:-"विश्वप्रकाशकृत भव्यशुभावकाश, ध्वान्तप्रतानपरिपातनसद्धिकाश । आदित्य नित्यमिह तीर्थकराभिषेके, कल्याणपल्लवनमाकलय प्रयत्नात् ॥१॥” ॐ सूर्य इह पूर्ववत् । १ । शुक्रं प्रति मालिनीवृत्तपाठः-"स्फटिकधवलशुध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रो पास्य पादारविन्द । त्रिभुवनजनशशश्वजन्तुविद्य, प्रथय भगवतोऽी शुक्र हे वीतविघ्नाम् ॥१॥" ॐ शुक्र इह पूर्ववत् । २। भोमं प्रति आर्यापाठ:-"प्रबलबलमितितबहुकुशललालनाललितकलितविघ्नहते । भौम जिनस्नपनेऽस्मिन् , विघट्य विधनागमं सर्वम् ॥१॥"ॐ मङ्गल इह० पूर्ववत् । ३। राहुं प्रति श्लोकपाठ:-"अस्तांहः सिंहसंयुक्त
REPRESECASEARCRACKAGARNRESS
Jan Education
For Private & Personal Use Only
X
wainelibrary.org