________________
आचारदिनकरः
॥६५॥
| श्रीतीर्थसेवाधियः । जातास्तेन विशुद्धयोधमधुना संप्राप्य तत्पूजनं, स्मृत्वैतत्करवाम विष्टपविभोः, स्नात्रं || विभागः १ मुदामास्पदम् ॥ ८॥ बालत्तणम्मि सामि अ सुमेरुसिहरम्मि कणयकलसेहिं । तिअसासुरेहिं न्हविओ ते वतारोप. धन्ना जेहिं दिट्ठोसि ॥९॥” इति कलशैः प्रतिमाभिषेचनं । ततः सर्वेऽपि गुरुक्रमविशेषेण पुरुषाः स्त्रियोऽपि गन्धोदकैः स्नानं कुर्वन्ति । ततोऽभिषेकान्ते गन्धोदकपूर्ण कलशं गृहीत्वा वसन्ततिलकावृत्तं पठित्वा । सधे चतुर्विध इह प्रतिभासमाने श्रीतीर्थपूजनकृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्वजस्रं स्नानं जगत्रयगुरोरतिपूतधारेः ॥१॥” इति जिनपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्तिः । पञ्चामृतस्नात्रयुक्तिस्तु शान्तिकपौष्टिकप्रतिष्ठोपयोगितया वृद्धस्नानविधौ कथयिष्यते । आईतश्वेतांबरमते पञ्चामृतस्नानविधिः शान्तिकादिषु भवति । नित्यपर्वस्नात्रं गन्धोदकैरेव । ततः पुष्पाञ्जलिं गृहीत्वा वृत्तं पठेत्-"इन्द्राग्ने यम निर्ऋते जलेश वायो वित्तेशेश्वर भुजगा विरचिनाथ । सङ्घाधिकतमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरुध्वम् ॥ १॥” इति स्नपनपीठपार्श्वस्थकल्पितदिक्पालपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततस्तस्पीठोपरि दिक्षु यथाक्रमं दिक्पालान् स्थापयेत् । तत एकै दिक्पालं प्रति पूजा । इन्द्रप्रति शिखरिणीवृत्त| पाठ:--"सुराधीश श्रीमन् सुदृढतरसम्यक्त्ववसते, शचीकान्तोपान्तस्थितविवुधकोटयानतपद । ज्वलद्धज्रा| घातक्षपितदनुजाधीशकटक प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥१॥"ॐ शक्र इह जिनस्नात्रमहोत्सवे आगच्छ २ इदं जलं गृहाण २ गन्धं गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ विघ्नं
M
Jain Education
w.jainelibrary.org
a
For Private & Personal use only
l
स