________________
आचार
दिनकरः
॥ ६२ ॥
Jain Education
पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु ।" इति जिनपादाग्रे पुष्पाञ्जलि क्षिपेत् । ततः पुनरपि पुष्पाञ्जलिं गृहीत्वा – “ ॐ अर्ह अर्हद्भक्ताष्टनवत्युत्तरशतं १९८ देवजातयः सदेव्यः पूजां प्रतीच्छन्तु सुपूजिताः सन्तु सानु० तुष्टिः पुष्टि० माङ्गल्य० महोत्सवदाः सन्तु ।" इत्युक्त्वा जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततोsय पुष्पं धृत्वा अर्हन्मंत्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् ।" अर्हन्मंत्रो यथा – “ ॐ अर्ह नमो अरिहंताणं, ॐ अर्ह नमो सयंसंबुद्धाणं, ॐ अर्ह नमो पारगयाणं । "अयं तु त्रिपदो मंत्रः श्रीमतामर्हतां परः । भोगमोक्षप्रदो नित्यं सर्वपापनिकृन्तनः ॥ १ ॥ न स्मर्त्तव्योऽपवित्रैश्च नान्यचित्तैर्न सस्वरम् । न आव्यश्च नास्तिकानां नैव मिथ्यादृशामपि ||२||" ततोऽष्टोत्तरशतं तदर्द्ध वा मंत्रजापः । ततो नैवेद्यढौकनं पायेन । तत एक पात्रजलं चुलुके गृहीत्वा – “ ॐ अर्ह - नानाषड्रससंपूर्ण नैवेद्यं सर्वमुत्तमम् । जिनाग्रे ढोकितं सर्वसंपदे मम जायताम् ॥ १॥" प्रत्येकं तत्र नैवेद्ये जलचुलुकक्षेपः । पुनर्जलचुलुकं गृहीत्वा - "ॐ सर्वे गणेशक्षेत्रपालायाः सर्वे ग्रहाः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजा देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेच्योऽद्भक्ता अनेन नैवेद्येन सन्तर्पिताः सन्तु सानु० तुष्टिः पुष्टि० माङ्गल्य० महो०" इति aardrataलुकक्षेपः । इति जिनार्चनविधिः । “यो जन्मकाले पुरुषोतमस्य सुमेरुशृङ्गे कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स ददातु सर्वाणि समीहितानि ॥ १ ॥ राज्याभिषेकसमये त्रिदशाधिपेन छत्रध्वजाङ्गतलयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः, स प्रीणयत्वनुदिनं सुधियां
For Private & Personal Use Only
विभागः व्रतारोप.
॥ ६२ ॥
www.jainelibrary.org