________________
| पुष्पाणि गृहीत्वा-"ॐ अहै भगवदभ्योऽदभ्यो जलगन्धपुष्पाक्षतफलधूपदीपैः संप्रदानमस्तु ॐ पुण्याहं | पुण्याहं प्रीयन्तां ग्रीयन्तां भगवन्तोऽर्हन्तस्त्रिलोकस्थिता नामाकृतिद्रव्यभावयुताः स्वाहा।" इति पुनर्जिनपूजनं । ततो वासान् गृहीत्वा-“ॐ सूर्यसोमाङ्गारकवुधगुरुशुक्रशनैश्चरराहु केतुमुखा ग्रहा इह जिनपादाने समायान्तु पूजां प्रतीच्छन्तु” इत्युक्त्वा जिनपादाधःस्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् । ततः"आचमनमस्तु गन्धमस्तु पुष्पमस्तु अक्षतमस्तु फलमस्तु धूपोस्तु दीपोऽस्तु,” इति क्रमेण जलगन्धपुष्पाक्षतफलधूपदीपैर्ग्रहाणां पूजा । ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा-"ॐ सूर्यसोमाङ्गारकवुधगुरुशुक्रशनैश्चरराहु केतुमुख्या ग्रहाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सबदाः सन्तु" इति ग्रहेषु पुष्पारोपणं । पुनरनयैव रोत्या-"ॐ इन्द्राग्नियमनितिवरुणवायुकुबेरेशाननागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः इह जिनपादाने समागच्छन्तु पूजां प्रतीच्छन्तु" इति पूजापट्टोपरि लोकपालानां वासक्षेपः। ततः-"आचमनमस्तु गन्धमस्तु पुष्पमस्तु अक्षतमस्तु फलमस्तु धूपोऽस्तु दीपोऽस्तु” इति क्रमेण जलगन्धपुष्पाक्षतफलधूपदीपैर्लोकपालानां पूजा । ततोऽञ्जस्यग्रे पुष्पं गृहीत्वा-"ॐ इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु।” इति लोकपालेषु पुष्पारोपणं । ततः पुष्पाञ्जलिं गृहीत्वा-"अस्मत्पूर्वजा गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु तुष्टिदाः सन्तु
Jain Education in
For Private & Personal Use Only
mainelibrary.org