________________
-९
आचारः दिनकरः
विभागः१ व्रतारोप.
भगवबरणोपरि पुष्पस्थापनं । पुष्पेण पुनरपि जलाड़ितेन पूजापूर्वकं कथनं । यथा-"स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्टास्तु ।” ततः पुष्पाभिषेकेण-"अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु ।" एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलाद्रितपुष्पारोपणं विधीयते । ततो जलं गृहीत्वा मंत्रश्लोकः-"ॐ अर्ह वं-जीवनं तर्पणं हयं प्राणदं मलनाशनम् । जलं जिनार्चनेऽत्रैव जायतां सुखहेतवे ॥१॥” इति जलेन प्रतिमाभिषेचनं स्नपनं च । ततश्चन्दनकुङ्कमकर्पूरकस्तृरीप्रभृतिगन्धं करे गृहीत्वा, श्लोकः-"ॐ अर्ह लं-इदं गन्धं महामोदं बृहणं प्रीणनं सदा । जिनार्चनेऽत्र सत्कर्मसंसिद्धथै जायतां मम ॥१॥” इति विविधगन्धैः प्रतिमाविलेपनं । ततः पुष्पपत्रिकादि हस्ते गृहीत्वा-श्लोकः-"ॐ अर्ह क्ष-नानावर्ण महामोदं सर्वत्रिदशबल्लभम् । जिनार्चनेऽत्र संसिद्ध्यै पुष्पं भवतु मे सदा ॥१॥” इति पुष्पपूजा । अक्षतान् गृहीत्वा-"ॐ अहं तं-प्राणीनं निर्मलं बल्यं माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्धय भूयान्मे जिनपूजने ॥१॥” इति अक्षतान् जिनप्रतिमोपरि आरोपयेत् । ततः पूगजातीफलादि वर्तमान फलं वा करे गृहीत्वा-"ॐ अहं फु:-जन्मफलं स्वर्गफलं पुण्यमोक्षफलं फलम् । दद्याजिनार्चनेऽत्रैव जिनपादाग्रसंस्थितम् ॥१॥” इति जिनपादाग्रे फलपूजा । ततो धूपं गृहीत्वा-"ॐ अहं रं-श्रीखण्डागरूकस्तुरीद्रमनिर्याससंभवः। प्रीणनः सर्वदेवानां धूपोऽस्तु जिनपूजने ॥१॥” इति वहौ धूपक्षेपः । पुष्पं गृहीत्वा-"ॐ अहं रं-पश्चज्ञानमहाज्योतिर्म| योऽयं ध्वान्तघातने । द्योतनाय प्रतिमाया दीपो भूयात्सदाहंतः॥१॥” इति दीपमध्ये पुष्पन्यासः । ततः
Jan Education
-
For Private & Persondi Use Only
.
wjainelibrary.org