SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सर्वाक्षराण्यष्टषष्टिः ६८ तस्योपधानं यथा नन्दिदेववन्दनकायोत्सर्गक्षमात्रमणवन्दनकप्रभृति नमस्कार श्रुतस्कन्धाभिलापेन पूर्ववत् । अभिमंत्रितवासक्षेपश्च । तत्र पूर्वसेवायामेकभक्तान्तरिता उपवासाः पञ्च एवं द्वादशदिनानि । तत्र प्रथमे नन्दिदिने एक भक्तं निर्विकृतिकं वा, द्वितीये उपवासः, तृतीये एकभक्तं, चतुर्थे उपवासा, पञ्चमे एकभक्तं, षष्टे उपवासः, सप्तमे एकभक्तं, अष्टमे उपवासः, नवमे एकभक्तं, दशमे उपवासः, एकादशे एकभक्तं, द्वादशे उपवासः इति छादशमस्तपः पूर्वसेवायां । तत्र पञ्चपरमेष्ठिपदानां नन्दि विनापि वाचना देया। शकस्तवभणनवासक्षेपपूर्व नमस्कारत्रयपठनं सर्ववाचनासु । तत्र श्रेणिबद्धा अष्टावाचाम्लाः एवं एकोनविंशतिदिनानि । ततो विंशतितमे दिने एकभक्तं एकविंशतितमे दिने उपवासः द्वाविंशतितमे दिने एकभक्तं त्रयोविंशतितमे दिने उपवासः चतुर्विशतितमे दिने एकभक्तं पञ्चविंशतितमे दिने उपवासः इत्यष्टमतपः उत्तरसेवायां । ततशूलिकावाचना "एसो पंचइत्याद्यारभ्य यावत् हवइ मंगलं" इति नमस्कारस्य उपधानं । ततस्तस्य वाचना तस्यायं विधिः। पूर्व समाचारीपुस्तकपूजनं पश्चान्मुखवस्त्रिकापिहितवदन ऐपिथिकी प्रतिक्रम्य क्षमात्रमणपूर्व भणति-"भगवन, नमुकारवायणा संदिसावणि वायणालेवावणि वासक्खेवं करेह चेइआई च वंदावेह' एवं नन्दि विधाय षइविंशतितमे दिने एकभक्ते कृते वाचना देया। चतुर्णा चूलिकापदानां सर्वेष्यप्युपधानेषु प्रतिदिनमव्यापारपौषधकरणं प्रातः प्रातः पौषधं पारयित्वा पुनः पुननित्यं पौषधग्रहणं कार्य नमस्कारसहस्रगुणनं च इति प्रथममुपधानं १ऐर्यापथिक्या अप्युप A Jain Educatio n al For Private & Personal Use Only Niraw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy