SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ - आचारदिनकरः ॥ ५३ ॥ Jain Education मंत्रमहाश्रुतस्कन्धस्य पञ्चाध्ययनान्यैका चूलिका द्विपदाश्चालापकाः संप्ताक्षरप्रमाणानि त्रीणि पदानि अर्ह - दाचार्योपाध्याय नमस्कृतिरूपाणि द्वितीयपञ्चमपदे सिद्धसाधुनमस्कृतिरूपे पञ्चाज्ञरनवाक्षरे । ततः पञ्चपदानन्तरं चूलिका । तत्र प्रथमालापो द्विपदरूपः षोडशाक्षरः द्वितीयालापस्तृतीयपदरूपोऽष्टाक्षरः तृतीयालापचतुर्थपदरूपो नवाक्षरः तत्र पञ्चसु पदेपूदेशद्वयं चूलिकायामुद्देशत्रयं । तत्र पञ्चसु पदेषु पञ्चत्रिंशदक्षराणि चूलिकायां स्त्रिंशदक्षराणि पञ्चाध्ययनानि । यथा" नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्व साहूणं" एका चूलिका यथा । "एसो पंचनमुकारो सव्वपावप्पणासणो । मंगलाणं च सवेसिं पढमं हवाइ मंगलं " । द्विपदा आलापका यथा " नमो अरिहंताणं नमो सिद्धाणं" एक आलापः " नमो आयरियाणं नमो उवज्झायाणं" द्वितीयालापः "नमो लोए सव्व साहूणं" तृतीयालाप: "एसो पंचनमुक्कारो सव्वपावपणासणो" चतुर्थ आलापः “मंगलाणं च सव्वेसिं पढमं हवइ मंगलं " पंचम आलापः । समाक्षर प्रमाणानि त्रीणि पदानि यथा- "नमो अरिहंताणं ७ नमो आयरियाणं ७ नमो उवज्झायाणं ७" अयमेक उद्देशकः ! faatri पञ्चाक्षरं 'नमो सिद्धाणं" ५ इति द्वितीय उद्देशकः । पञ्चमपदं नवाक्षरं ९" नमो लोए सव्व साहूणं" इति तृतीय उद्देशकः । चूलिकायां प्रथमालापः षोडशाक्षरः १६ “ एसो पंचनमुक्काशे सव्वपावप्पणासणो” इति चूलिकायां प्रथम उद्देशः । चूलिकायां द्वितीयालापोऽष्टाक्षरः ८ "संगलाणं च सव्वेसिं" इति चूलिकायां द्वितीय उद्देशः । चूलिकायां तृतीयालापो नवाक्षरः ९ "पढमं हवइ मंगलं" इति चूलिकायां तृतीय उद्देशः । For Private & Personal Use Only ional विभागः १ व्रतारोप. ॥ ५३ ॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy