________________
48MARAORSCORCHES
वरिसं' इत्यादि वक्तव्यं । शेषेष्वपि व्रतेषु 'जावजीवाए' स्थाने 'मासं छम्मसं वरिसं' इत्यादि वक्तव्यं इति॥ ॥ अथ प्रतिमोहनविधिः । प्रतिमा यावज्जीवं नियमस्य स्थिरीकरणप्रतिज्ञा । न तत्र कालादौ नियमव्यवच्छेदः । ताश्चैकादश गृहिणां। ता यथा-"दंसण १ वय २ सामाइय ३ पोसह ४ पडिमाय ५ बंभ ६ अचित्ते । आरंभ ८ पेस ९ उद्दिट्ट १० वजभूए समणभूए ११ य ॥१॥" तत्र श्रावको यस्यां निःशहितादिसम्यग्दर्शनो मासं स्यात्सा प्रथमा १ बताधारी द्वितीया २ कृतसामायिकस्तृतीया ३ अष्टमीचतुर्दश्यादिषु चतुर्विधपोषधकर्ता चतुर्थी ४ पौषधकाले रात्रिक्यादि प्रतिमादिप्रतिपत्ता अस्नानः प्रासुकभोजी दिवा ब्रह्मचारी रात्री कृतपरिमाणः कृतपौषधस्तु रात्रावपि ब्रह्मचर्य चेत्येषा पश्चमी ५ सदा ब्रह्मचारी षष्ठी ६ सचित्ताहारवर्जकः सप्तमी ७ आरंभस्वयङ्करणवर्जकाऽष्टमी ८ प्रेष्यैरारंभवर्जको नवमी उद्दिष्टकृताहारवर्जकः क्षुरमुण्डितः शिखी वा निराधारी कृतार्थजातनिदर्शनश्चेति दशमी १० क्षुरमुण्डो लुश्चितो वा रजोहरणप्रतिग्रहधारो श्रमणभूतो निर्ममत्वः स्वज्ञातिषु विहरतीत्येकादशी ११ । अत्र च प्रथमा मासं यावत् , द्वितीया दो मासौ तृतीया त्रयमेवं यावदेकादशी एकादशमासान् । तथा यत्पूर्वस्यां भणितं तदुत्तरस्यामपि सर्व भणनीयम् । एतासु वितथप्रज्ञापनाश्रद्धानादिना अतिचार इति । तत्र प्रथमं दर्शनप्रतिमा तस्यां नन्दिचैत्यवन्दनकक्षमाश्रमणवासक्षेपविधिः दर्शनप्रतिमामिलापेन । स एव दण्डकस्त्वेवं-"अहन्नं भंते तुम्हाणं समीवे मिच्छत्तं
१ "स्वजातिः' इत्यपि पाठः
Jan Education in
For Private & Personal Use Only
Haw.jainelibrary.org