________________
SLCCOROSCORREOGLOSSAROSAROSES
विवाहदीक्षाप्रतिष्ठावत् शुभलग्ने गुरुस्तदगृहे शान्तिकपौष्टिके विधाय पुनर्देवगृहे धर्मगृहे शुभाश्रमेऽन्यत्र वा यथाकल्पितं समवसरणं स्थापयेत् । ततः श्राद्धं स्नातं शुचिं स्वगृहान्महोत्सवेन समायातं सकक्षश्वेतनिवसनं । श्वेतोत्तरासङ्गं मुखवस्त्रिकाकरं बद्धधम्मिल्लं चन्दनकृतभालतिलकं स्ववर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासङ्गधारिणं गुरुः पूर्वाभिमुखो वामपार्श्वे संस्थाप्य इति कथयेत्-"समत्तमिउ लद्धेठइयाई नरयतिरियदा राई। दवाणि माणुसाणि यमुक्खसुहाइ सुहीणाई॥१॥” ततो गुर्वाज्ञया श्राद्धो नालिकेराक्षतक्रमुकपूर्णकरः समवसरणं परमेष्ठिमंत्रं भणन् त्रिः प्रदक्षिणयेत् । ततो गुरुपाचं समेत्य गुरुश्राद्धौदावपि ईर्यापथिकी प्रतिक्राम्यतः। ततो निषद्यानिषण्णस्य गुरोः पुरः श्राद्धः “इच्छामि खमासमणो वंदिउं जावणिजाए निस्सीहियाए मत्थएण बंदामि भगवनिच्छाकारेण तुम्हे अम्ह सम्मत्तमारोवणियं नंदिकडावणियं वासक्खेवं करेह।" | ततो गुरुर्वासान् मरिमंत्रेण गणिविद्यया वा अभिमंत्र्य परमेष्ठिकामधेनुमुझे विधाय पूर्वाभिमुख ऊर्वीभूतो वामपार्श्वस्थस्य श्राद्धस्य शिरसि निक्षिपेत् । तन्मस्तके हस्तं न्यस्य गणधरविद्यया रक्षां कुर्यात् । ततो गुरुनिषद्यायां निषीदति । श्राद्धः पूर्ववत्समवसरणं प्रदक्षिणीकृत्य गुर्वग्रे क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण तुम्हे अम्हं सम्मत्ताइतिगारोवणि चेईआई वंदावेह।" ततो गुरुश्राद्धौ चतसृभिर्वमानस्तुतिभिश्चैत्यवन्दनं कुम्तः । वर्द्धमानस्तुतयस्तु छन्दसा वर्द्धमानाश्चरमजिनस्तुतिपूर्वाश्च । ततश्चतुर्थस्तुतिकथनान्ते श्रीशान्तिनाथदेवाराधनार्थ-"करेमिकाउसग्गं वंदणवत्तियाए. जाव अप्पाणं वोसिरामि ।" सतविंशत्यच्छ
Jan Education in
al
For Private & Personal Use Only
w.jainelibrary.org