SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर विभागः१ वतारोप. ॥४३॥ सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥७॥ अदेशाकालयोश्चर्या त्यजन् जानन बलाबलम् । वृतस्थज्ञानवृद्वानां पूजकः पोष्यपोषकः ॥८॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः ॥९॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहीधर्माय कल्पते ॥१०॥"ईदृशस्य पुरुषस्य व्रतारोपो विधीयते । प्रायेण व्रतारोपे गुरुशिष्यवचनानि प्राकृतभाषया यतो गर्भाधानादिविवाहपयन्तेषु संस्कारेषु गुरुवचनान्येव प्रायेण सन्ति न शिष्यवचनानि । गुरवश्च प्रायेण शास्त्रविदः संस्कृतवादिनो भवन्ति । अत्र तु व्रतारोपे बालानां स्त्रीणां मूर्खाणां च क्षमाश्रमणदानपूर्व शिष्याणां वचनाधिकारः ततस्तेषां संस्कृतोचारासामर्थ्य प्राकृतानि वाक्यानि तत्साहचर्यात्तत्प्रबोधार्थ गुरुवाक्यान्यपि प्राकृतानि । यत उक्तमागमे-"मुत्तूण दिहिवायं कालिय उत्कालियंगसिद्धंतं । धीबालवायणत्धं पाइयमुइयं जिणवरेहिं॥१॥" तथा च-"बालस्त्रीवृद्धमूर्खाणां नृणां चारित्रकाक्षिणाम् । उच्चारणाय तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥१॥" दृष्टिवादस्तु द्वादशमङ्गं परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ रूपं पञ्चविधं संस्कृतमेव न बालस्त्रीमुखैः पठनीयं । संसारपारगामिभिर्विदिततत्त्वोपन्यासैर्गीताथैरेव पठनीयं । शेषमेकादशाङ्गं कालिकोत्कालिकादिसाधुसाध्वीशिशुभिर्वतिभिर्योगवाहिभिः पठनीयम् । अतएव भगवद्भिरहद्भिः प्राकृतं कृतं । ततो व्रतारोपेऽपि गृहिणां बालस्त्रीमूर्खावस्थाभृतां तादृशां यतीनामपि वचांसि प्राकृतानि । अथ-"मृदुधु| वचरक्षिप्रैर्वारै मं शनि विना। आद्याटनतपोनन्द्यालोचनादिषुभं शुभम्॥१॥"वर्षमासदिननक्षत्रलग्नशुद्धौ ॥४३॥ Jain Education in For Private & Personal Use Only K ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy