SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विभागः१ विवाह वि. ॥४०॥ SROGRESTEROCCORROMANCESS ज्ञातौ दंपती विविधविलासिनीगणवेष्ठितौ शृङ्गारगृहं प्रविशतः। तत्र पूर्वस्थापितमदनस्य कुलवृद्धानुसारेण मदनपूजनं कुरुतः। ततः वधूवरयोः सममेव क्षीरान्नभोजनं ततो यथायुक्त्या सुरतप्रचारः। ततस्थैवागमनरीत्या सोत्सवं स्वगृहं ब्रजतः। ततो वरस्य मातापितरौ वधूवरयोः निरुञ्छनमङ्गलविधि स्वदेशकुलाचारेण कुरुतः। कङ्कणयन्धनकङ्कणमोचनद्यूतक्रीडावेणीग्रन्थनादिकर्माणि सर्वाण्यपि तद्देशकुलाचारेण कर्त्तव्यानि । विवाहात्पूर्व वधूवरपक्षयेऽपि भोजनदानं । तदनन्तरं धूलिभक्तजन्यभक्तप्रभृति देशकुलाद्याचारेण । ततः सप्ताहानन्तरं वरवधूविसर्जनं । तस्य चायं विधिः, सप्ताहं विविधभक्त्या पूजितस्य जामातुः पूर्वोक्तरीत्या अञ्चलग्रन्थनं विधाय अनेकवस्तुदानपूर्व तेनैवाडंबरेण स्वगृहप्रापणं कुर्यात् । ततः सप्तरात्रिकमासिकषामासिकवार्षिकमहोत्सवकरणं स्वकुलसंपत्तिदेशाचारानुसारेण विधेयं । सप्तरात्रानन्तरं मासानन्तरं वा कुलाचारानुसारेण कन्यापक्षे मातृविसर्जनं पूर्वोक्तरीत्या करणीयं । गणपतिमदनादिविसर्जनविधिलोकप्रसिद्धः। वरपक्षे कुलकरविसर्जनविधिस्तु कथ्यते । कुलकरस्थापनानन्तरं नित्यं कुलकरपूजा विधेया। विसर्जनकाले कुलकरान् संपूज्य गृह्यगुरुः पूर्ववत्, "ॐ अमुककुलकराय” इत्यादि पूर्ववत्संपूर्ण मत्रं पठित्वा, "पुनरागमनाय स्वाहा” इति सर्वानपि कुलकरान् विसर्जयेत्, "ॐआज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देव क्षमस्व परमेश्वर ॥१॥” इति कुलकरविसर्जनविधिः । ततो मण्डलीपूजा गुरुपूजा वासक्षेपादि पूर्ववत् । साधुभ्यो वस्त्रपात्रदानं । ज्ञानपूजा विप्रेभ्योऽपरमार्गणेभ्यो यथासंपत्ति दानं । तथा च देशकुलसमयान्तरे ४ ॥४०॥ Jain Education Interix For Private & Personal Use Only nelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy