________________
येत् , “वधूवरौ वा पूर्वकर्मानुसंबन्धेन निबिडेन निकाचितबद्धन अनुपवर्तनीयेन अघातनीयेन अनुपायेन अश्लथेन अवश्यभोग्येन विवाहः प्रतिबद्धो बभूव, तदस्त्वखण्डितोऽक्षयोऽव्ययो निरपायो निर्व्यायाधः सुखदोऽस्तु, शान्तिरस्तु, पुष्टिरस्तु, ऋद्धिरस्तु, वृद्धिरस्तु, धनसन्तानवृद्धिरस्तु।" इत्युक्त्वा तीर्थोदकैः कुशाग्रेणाभिषिञ्चत् । पुनर्गुमस्तथैव वधूवरावुत्थाप्य मातृगृहं नयेत् । तत्र नीत्वा वधूवरयोरिति वदेत् , “अनुष्ठितो वां विवाहो वत्सौ ! सस्नेही, सभोगौ, सायुषी, सधर्मों, समदुःखसुखी, समशत्रुमित्रो, समगुणदोषौ, समवाङ्मनःकायौ, समाचारौ, समगुणौ भवतां ।" ततः कन्यापिता करमोचनाय गुरुं प्रति वदति । गुरुरिति वेदमंत्रं पठेत् , "ॐ अर्ह जीव त्वं कर्मणा बद्धः, ज्ञानावरणेन बद्धः, दर्शनावरणेन बद्धः वेदनीयेन बद्धः, 5 मोहनीयेन बद्धः, आयुषा बद्धो, नाम्ना बद्धो, गोत्रेण बद्धः, अन्तरायेण बद्धः, प्रकृत्या बद्धः, स्थित्या बद्धः, रसेन बद्धः, प्रदेशेन बद्धः, तदस्तु ते मोक्षो गुणस्थानारोहक्रमेण अहं ॐ।" इति वेदमंत्रं पठित्वा पुनरिति वदेत् , “मुक्तयोः करयोरस्तु वां स्नेहसंबन्धोऽखण्डितः।" इत्युक्त्वा करौ मोचयेत् । कन्यापिता करमोचनपर्वणि जामात्रा प्रार्थितं स्वसंपत्त्यनुसारि वा बहु वस्तु दद्यात् । तद्दानविधिः, पूर्वयुक्त्यैव ततः पुनर्मातगृहादुत्थाय पुनर्वेदिगृहमागच्छतः। ततो गृह्यगुरुरासनोपविष्टयोस्तयोरिति. वदेत्-"पूर्व युगादिभगवान् विधिनैव येन विश्वस्य कार्यकृतये किल पर्थणैषीत् भार्याद्वयं । तदमुना विधिनास्तु युग्ममेतत्सुकामपरिभोगफलानुबन्धि ॥१॥" इत्युक्त्वा पूर्वोक्तविधिनाञ्चलमोचनं कृत्वा, "वत्सौ ! लब्धविषयौ भवतां" इति गुर्वनु
BAIKROAALISUUS
Jain Education in
For Private & Personal use only
W
w.jainelibrary.org