________________
Jain Education Inte
"दयितसंवतदानपराजितः प्रवरदेहि शरण्य हिरण्यदः । दनुजपूज्यजयोशन सर्वदा दयितसंवृतदानपराजितः ॥ १ ॥ ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोजवलाय श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शे० । ६ । माभूद्विपत्समुदयः खलु देहभाजां द्रागित्युदीरितलघिष्ठगतिर्नितान्तम् । कादम्बिनीकलितकान्तिरनन्तलक्ष्मीं सूर्यात्मजो वितनुताद्विनयोपगूढः ॥ १ ॥” ॐ शः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेद्दाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्वर सा० शे० |७| "सिंहिकासुतसुधाकर सूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयत्र ॥ १ ॥ ॐ क्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा० शे० । ८ । “सुखोत्पातहेतो विपद्वार्धिसेतो निषद्यासमेतोत्तरीयार्धकेतो । अभद्रानुपेतोपमाछायुकेतो जयाशंसनाहर्निशं तार्क्ष्यकेतो ॥ १ ॥” ॐ नमः श्रीकेतवे राहुप्रतिच्छन्द्राय श्यामाङ्गाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सा० शे० । ९ । “समरडमरसंगमोदामराडम्बराडम्बलंबोल सद्विंशतिप्रौढबाहूपमाप्राप्तसर्पाधिपालंकृतिः । निशितकठिन खड्ग खड्गाङ्गजाकुन्तविस्फोटको दण्डकाण्डाछलीयष्टिशूलोरुचक्रक्रमभ्राजिहस्तावलिः । अतिघनजनजीवन पूर्ण विस्तीर्णसद्वर्णयुताविद्युदुद्भूतिभाग भोगिहारोरुरत्नच्छटा संगतिः । मनुजदनुज की कसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्यसिंहासनोल्लासभाखत्तमः क्षेत्रपः ॥ १ ॥ ॐ क्षां क्षीं क्षं क्षौं क्षः नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसर कपिलवर्णाय कालमेघमे
For Private & Personal Use Only
ww.jainelibrary.org