________________
आचारदिनकरः ॥ १८० ॥
Jain Education Inte
धूपं० दीपं० नैवेद्यं • सर्वोपचारान् शान्तिं कुरु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । १ । “प्रोद्यत्पीयूष पूरप्रसृमरजगती पोषनिर्दोषकृत्यव्यावृत्तो ध्वान्तकान्ताकुल कलितमहामानदत्तापमानः । उन्माद्यत्कण्टकाली दल कलित सरोजालिनिद्राविनिद्रश्चन्द्रश्चन्द्रावदातं गुणनिवहमभिव्यातनोत्वात्मभाजाम् ॥ १ ॥ ॐ चं चं चं नमश्चन्द्राय शम्भुशेखराय षोडशकला परिपूर्णाय तारागणाधीशाय वायव्यदिगधीशाय अमृताय अमृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्र सायु० शे० । २ । “ऋणाभिहन्ता सुकृताधिगन्ता सदैववक्रः ऋतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुचयानां श्रीमङ्गलो मंगलमातनोतु ॥ १ ॥ ॐ हुं हुं हुं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सा० शे० । ३ । “प्रियप्रख्याङ्गो गलदमलपीयूषनिकषस्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भङ्गं स भगवान् ॥ १ ॥” ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सा० शेषं० । ४ । " शास्त्र प्रस्तारसारप्रततमतिवितानाभिमानातिमानप्रागल्भ्यः शम्भुजम्भक्षयकरदिनकृद्विष्णुभिः पूज्यमानः । निःशेषाखप्रजातिव्यतिकर परमाधीतिहेतुर्बृहत्याः कान्तः कान्तादिवृद्धिं भवभयहरणः सर्वसङ्घस्य कुर्यात् ॥ १ ॥ ॐ जीव २ नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय काञ्चनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सा० शे० १५॥
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १८० ॥
jainelibrary.org