________________
आचारदिनकरः
विभागः२ प्रतिष्ठाविधिः
॥१७९॥
*USASSASSASSASSUOSISAAS
व्याघ्रचर्मवृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिते सा० शे० ।५। "कल्लोलोल्बणलोललालितचलत्मालम्बमुक्तावलीलीलालम्भिततारकाव्यगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः॥१॥" ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सा० शे०।६। "ध्वस्तध्वान्तध्वजपटलटल्लंपटाटंकशंकः पङ्कवातश्लथनमथनः पार्श्वसंस्थायिदेवः । अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात् बाह्यान्तस्थप्रचुररजसा नाशनं श्रीनभखान् ॥१॥" ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धूसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सा.शे० ।। "दिननाथलक्षसमदीप्तिदीपिताखिलदिग्विभागमणिरम्यपाणियुक् । सद्गण्यपुण्यजनसेवितक्रमो धनदो दधातु जिनपूजने धियम् ॥१॥" ॐ यं ३ नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलासस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाशाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सा० शे०।८। “उद्यत्पुस्तकसस्तहस्तनिवहः संन्यस्तपापोद्भवः शुध्यानविधूतकर्मविमलो लालित्यलीलानिधिः । वेदोचारविशारिचारुवदनोन्मादः सदा सौम्यहम् ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद्भव्यं समस्तं जनम् ॥१॥" ॐ नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सा०।९। "क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षालिताम्भोजवर्णः
ACCACANABCRESS
॥१७९॥
Jain Education inte
For Private & Personal use only
m.jainelibrary.org