SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विभागः२ प्रतिष्ठाविधिः आचार- युक्ताः सशस्त्रात्मनः॥१॥" अनेन अष्टमवलये शासनदेवीपुष्पाञ्जलिक्षेपः ॥ "वर्णाभा गरुडासनाष्टभुदिनकरः जयुग वामे च हस्तोचये वज्रं चापमथाङ्कशं गुरुधनुः सौम्याशया बिभ्रती । तस्मिंश्चापि हि दक्षिणेऽथ वरदं चक्रं च पाशं शरान् सच्चक्रापरचक्रभञ्जनरता चक्रेश्वरी पातु नः॥१॥" ॐ नमः श्रीचक्रेश्वर्यै ऋषभनाथदिशासनदेव्यै श्रीचक्रेश्वरि सायुधा सवाहना सपरिकरा इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरं गृहाण २ संनिहिता भव २ स्वाहा जलं गृहाण गन्धं पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा।१। “गोगामिनी धवलरुक्च चतुर्भुजाड्या वामेतरं वरदपाशविभासमाना । वामं च पाणियुगलं मृणिमातुलिङ्ग युक्तं सदाजितबला दधती पुनातु ॥१॥” ॐ नमः श्रीअजितबलायै श्रीअजितनाथशासनदेव्यै श्रीअजिहतबले सा० शे०।२। "मेषारूढा विशदकरणा दोश्चतुष्केग युक्ता मुक्तामालावरदकलितं दक्षिणं पाणियु ग्मम् । वामं तच्चाभयफलशुभं बिभ्रती पुण्यभाजां दद्याद्भद्रं सपदि दुरितारातिदेवी जनानाम् ॥१॥" ॐ नमः श्रीदुरितारये श्रीसंभवनाथशा० श्रीदरितारे सा.शे०।३। "श्यामाभा पद्मसंस्था वलयवलिचतुर्वा हुविभ्राजमाना पाशं विस्फूर्जमूर्जस्खलमपि वरदं दक्षिणे हस्तयुग्मे । बिभ्राणा चापि वामेऽङ्कुशमपि कविषं &|भोगिनं च प्रकृष्टा देवीनामस्तु काली कलिकलितकलिस्फूर्तितद्भूतये नः॥१॥” ॐ नमः श्रीकाल्यै अभि सशस्त्रासनाः इति पाठान्तरम् । ॥१७६॥ 59 Jan Education in i tal For Private & Personal Use Only VRw.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy