________________
आचार
दिनकरः
॥ १७५ ॥
Jain Education Interna
सरोरुहमातुलिङ्गः । १ ।” ॐ नमः श्रीगरुडयक्षाय श्रीशान्तिनाथजि० श्रीगरुडयक्ष शे० । १६ । " श्यामश्च|तुर्भुजधरः सितपत्रगामी विभ्रच दक्षिणकरद्वितयेपि पाशम् । विस्फूर्जितं च वरदं किल वामपाण्योर्गन्धर्वराष्ट् परिधृताङ्कुशबीजपूरः ॥ १ ॥” ॐ नमः श्रीगन्धर्वयक्षाय श्री कुन्थनाथजि० श्रीगन्धर्वयक्ष शे० । १७ । “वसु| शशिनयनः षडास्यः सदा कम्बुगामी धृतद्वादशोद्यद्भुजः श्यामलः तदनु च शरपाशसडीजपूराभयासिस्फुरन्मुद्गरान् दक्षिणे स्फारयन् करपरिचरणे पुनर्वाम के बभ्रुशूलाङ्कुशानक्षसूत्रं स्फरं कार्मुकं दधदवितथवाक् स यक्षेश्वराभिख्यया लक्षितः पातु सर्वत्र भक्तं जनम् ॥ १ ॥" इच्छादण्डकः । ॐ नमः श्रीयक्षेश्वराय श्रीअरनाथजि० श्रीयक्षेश्वर शेषं० । १८ । “अष्टाक्षाष्टभुजचतुर्मुखधरो नीलो गजोद्यद्गतिः शूलं पर्शुमथाभयं च वरदं पाण्युच्चये दक्षिणे । वामे मुद्गरमक्ष सूत्रममलं सहीजपूरं दधत् शक्तिं चापि कुबेरकूबरधृताभिख्यः सुरः पातु वः ॥ १ ॥ ॐ नमः श्रीकुबेराय वा श्रीमल्लिनाथजि० श्रीकुबेरयक्ष शेषं० । १९ । “श्वेतो द्वादशलोचनो वृषगतिर्वेदाननः शुभ्ररुक् सज्जात्यष्टभुजोऽथ दक्षिणकरवाते गदां सायकान् । शक्ति सत्फलपूरकं दधदधो वामे धनुः पङ्कजं पशुं बभ्रुमपाकरोतु वरुणः प्रत्यूहविस्फूर्जितम् ॥ १ ॥ ॐ नमः श्रीवरुणयक्षाय श्रीमुनिसुव्रतस्वामिजि० श्रीवरुणयक्ष शे० । २० । “खर्णाभो वृषवाहनोष्टभुजभाग् वेदाननो द्वादशाक्षो वामे कर| मण्डलेऽभयमथो शक्तिं ततो मुद्गरम् । बिभ्रद्वै फलपूरकं तदपरे वामे च बभ्रं पविं पशुं मौक्तिकमालिकां भृकुटि डिस्फोटयेत्संकटम् ॥ १ ॥ ॐ नमः श्रीभृकुटियक्षाय श्रीनेमिखामिजि० श्रीभृकुटियक्ष शेषं० । २१ ।
I
For Private & Personal Use Only
विभागः २ प्रतिष्ठा
विधिः
।। १७५ ।।
ainelibrary.org