________________
अनेन वृत्तेन सप्तमवलये शासनयक्षाणां पुष्पाञ्जलिक्षेपः । "वर्णाभो वृषवाहनो द्विरदगोयुक्तश्चतहभिः बिभ्रदक्षिणहस्तयोश्च वरदं मुक्ताक्षमालामपि । पाशं चापि हि मातुलिङ्गसहितं पाण्योर्वहन वामयोः संघ रक्षतु दाक्ष्यलक्षितमतिर्यक्षोत्तमो गोमुखः॥१॥" ॐ नमो गोमुखयक्षाय श्रीयुगादिजिनशासनरक्षाकारकाय श्रीगोमुखयक्ष सायुध सवाहन सपरिच्छदः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमध्य पाद्यं बलिं चर्स गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं. दीपं0
नैवेद्यं सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा है।। १ । “द्विरदगमनकृच्छितिश्चाष्टबाहुश्चतुर्वक्रभाग्मुद्गरं वरदमपि च पाशमक्षावलिं दक्षिणे हस्तवृन्दे वहन् ।
अभयमविकलं तथा मातुलिङ्ग मणिशक्तिमाभासयत् सततमतुलं वामहस्तेषु यक्षोत्तमोसौ महायक्षकः॥१॥" इच्छादण्डकः । ॐ नमो महायक्षाय श्रीअजितखामिजिनशासनरक्षाकारकाय श्रीमहायक्ष सायु० सवा० शेष पूर्ववत् । २। "त्र्यास्यः श्यामो नवाक्षः शिखिगमनरतः षड्भुजो वामहस्तः प्रस्तारे मातुलिङ्गाक्षवलयभुजगान् दक्षिणे पाणिवृन्दे । बिभ्राणो दीर्घजिह्वद्विषदभयगदासादिताशेषदुष्टः कष्टं संघस्य हन्यात्रिमुखसुरवरः
शुद्धसम्यक्त्वधारी ॥१॥" ॐ नमः श्रीत्रिमुखयक्षाय श्रीसंभवखामिजिनशासनरक्षाकारकाय श्रीमुखयक्ष है सा० शेषं०।३। "श्यामः सिन्धुरवाहनो युगभुजो हस्तद्वये दक्षिणे मुक्ताक्षावलिमुत्तमा परिणतं सन्मातु
लिङ्गं वहन् । वामेऽप्यङ्कशमुत्तमं च नकुलं कल्याणमालाकरः श्रीयक्षेश्वर उज्ज्वलां जिनपतेदेद्यान्मति शासने
ACAMACHARMACAMACANCHA
Jan Education
For Private & Personal Use Only
Paw.jainelibrary.org