________________
Jain Education Inter
I
गुरङ्गाङ्गरुचः स्फटिकोज्ज्वलवाससः । प्राणेश्वर्यः किंनरस्य कुर्वन्तु कुशलं सताम् ॥ १ ॥ ॐ नमः श्रीकिंनरेन्द्रदेवीभ्यः श्रीकिंनरेन्द्रदेव्यः सा० शे० । २९ । “नीलकायरुचः कान्ताः कान्ताः किंपुरुषस्य च । चन्द्रोज्ज्वलाच्छादधराः सन्तु विघ्नभिदाकृतः ॥ १ ॥ ॐ नमः श्रीकिंपुरुषेन्द्रदेवीभ्यः श्रीकिंपुरुषेन्द्रदेव्यः सा० शे० । ३० । "सत्कुन्द कलिकाजालवलक्षतनुतेजसः । नीलवस्त्राः सत्पुरुषवशा वाञ्छितदायिकाः ॥ १ ॥ ॐ नमः श्रीसत्पुरुषेन्द्रदेवीभ्यः श्रीसत्पुरुषेन्द्रदेव्यः सा० शे० । ३१ । “महापुरुषदेव्यस्तु शङ्खोज्ज्वलतनूधराः । प्रियङ्गुप्रियवर्णाभवस्त्राः सन्त्वत्र संस्थिताः ॥ १ ॥ ॐ नमः श्रीमहापुरुषेन्द्रदेवीभ्यः श्रीमहापुरुषेन्द्रदेव्यः सा० शे० । ३२ । “अन्तरिक्षप्रख्यरुचो धृतपीताम्बरस्रजः । अहिकायमहिष्यस्तु नन्तु विघ्नं जिनार्चने ॥ १ ॥ ॐ नमः श्रीअहिकायेन्द्रदेवीभ्यः श्रीअहिकायेन्द्रदेव्यः सा० शे० । ३३ । “महाकायस्त्रियः श्यामकमनीयाङ्गराजिताः । पीताम्बराश्च सङ्घस्य कुर्वन्तु कुलवर्द्धनम् ॥ १ ॥ ॐ नमः श्रीमहाकायेन्द्रदेवीभ्यः श्रीमहाकायेन्द्रदेव्यः सा० शे० । ३४ । “वीणाकराः श्यामरुचः कौसुम्भवसनावृताः । सन्तु गीतरतेर्देव्यः ससंगीता जिनार्चने ॥ १ ॥ " ॐ नमः श्रीगीतरतीन्द्रदेवीभ्यः श्रीगीतरतीन्द्रदेव्यः सा० शे० । ३५ । “श्रीमद्गीतयशोदेव्यः श्यामाः संगीतसंगताः । कुरुविन्दारुणसिचः सन्तु संतापशान्तये ॥ १ ॥ ॐ नमः श्रीगीतयशइन्द्रदेवीभ्यः श्रीगीतयशइन्द्रदेव्यः सा० शे० । ३६ । “मौक्तिकप्रख्यवपुषो नीलाम्बरमनोहराः । देव्यः संनिहितेन्द्रस्य सन्तु संनिहिता इह ॥ १ ॥ ॐ नमः श्रीसंनिहितेन्द्रदेवीभ्यः श्रीसंनिहितेन्द्रदेव्यः सा० शे० । ३७ । “नवोद्यत्पारदरुचो रा
For Private & Personal Use Only
jainelibrary.org