________________
NAGALANGANAGAR
लादलितभविकापायनिचयो महाश्वेतस्त्राता भवतु जिनपूजोत्सुकधियाम् ॥१॥" ॐ नमः श्रीमहाश्वेताय कूष्माण्डव्य श्रीमहाश्वेत सा० शे०।५०। “विमलविद्रुमविभ्रमभृत्तनुर्धवलवस्त्रसमर्पितमङ्गलः। वरमरालमनोहरकेतनः पतगराट्र परिरक्षतु सेवकान् ॥१॥" ॐ नमः श्रीपतगाय पतगव्य० श्रीपतग सा० शे०। ५१॥ "पतगरतिरवाप्तपद्मरागच्छविरतिशुभ्रसिचाविचार्यशोभः । प्रगुणितजनसंसहंसकेतुः किसलयतां कुशलानि सर्वकालम् ॥१॥" पुष्पिताया।ॐ नमः श्रीपतगरतये पतगव्य० श्रीपतगरते सा.शे०।५२। "सप्ताश्वप्रचलरथप्रतिष्ठिताङ्ग धृतहरिकेतन इष्टपद्मचक्रः सकलवृषविधानकर्मसाक्षी दिवसपतिर्दिशतात्तमोविनाशम् ॥१॥" उपच्छन्दसिकं । ॐ नमः श्रीसूर्याय ज्योतिष्केन्द्राय श्रीसूर्य सा० शे०१५३ । “अमृतमयशरीरविश्वपुष्टिप्रदकुमुदाकरदत्तबोधनित्यम् । परिकरितसमस्तधिष्ण्यचक्रैः शशधर धारय मानसप्रसादम् ॥१॥” पुष्पिताग्रा । ॐ नमः श्रीचन्द्राय ज्योतिष्केन्द्राय श्रीचन्द्र सा० शे०।५४। “सम्यक्त्वव्यतिरेकतर्जितमहामिथ्यात्वविस्फूर्जितः पाणिप्रापितवज्रखण्डितमहादैत्यप्रकाण्डस्थितिः । पौलोमीकुचकुम्भसंभ्रमधृतध्यानोद्यदक्षावलिः श्रीशक्रः ऋतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥१॥” शार्दूलविक्रीडितं । ॐ नमः श्रीशक्राय सौधर्मकल्पेन्द्राय श्रीशक्र सायुधः सवाहनः सपरिच्छदः सामानिकारक्षत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णिकाभियोगिककैल्बिषिकयुतः इह प्रति० शेषं० । ५५ । "ईशानाधिपते ककुद्मदयनश्वेताङ्गशूलायुधः श्रीतीर्थकरपादपङ्कजसदासेवैकपुष्पव्रतः । यज्ञध्वंसवरिष्ठविक्रमचमत्कारक्रियामन्दिर श्रीसंघस्य समस्तविघ्ननिवहंद्रागेव दूरीकुरु ॥१॥"
Thinelibrary.org
Jain Education Inter
For Private & Personal Use Only