________________
Jain Education Interna
यदलकान्तिप्राप्त सौभाग्यशोभः प्रसृमरवरजावारक्तसुव्यक्तवासाः । अनुपमबहुपादक्ष्मारुहत्केतुमिच्छन् जयति जिनमतस्यानन्दको माणिभद्रः ॥ १ ॥” मालिनी । ॐ नमः श्रीमाणिभद्राय यक्षव्यन्तरेन्द्राय श्रीमाणिभद्र सा० शे० । २६ । “स्फटिकनिभैः शरीरभवरोचिषां समूहैर्गगनतलाद्भुतावगमनाम्बराभिषक्तैः । शयनपढ़ाधिरूढचिरध्वजाभियोगैः पटुतरभूरिलक्ष्मकलितः स भीमदेवः ॥ १ ॥" अष्टौजातिः । ॐ नमः श्री भीमदेवाय राक्षसव्यन्तरेन्द्राय श्री भीम सा० शेषं० । २७ । “शरचन्द्रज्योतिर्निचयरचिताशां धवलयन् स्फुरद्राजावर्तप्रभवसनशोभाप्रकटनः । स्वकेतौ खट्टाङ्गं दधदविकलं कल्मषहरो महाभीमः श्रीमान् विदलयतु विघ्नं तनुभृताम् ॥ १॥" शिखरिणी । ॐ नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम सा० शे० । २८ । " नीलाइमाभच्छविमविकलामङ्गसङ्गे दधानो वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापादसंस्पर्शयोग्यं बिभ्रत्ती प्रभुरभिभवं किंनरो न्यक्करोतु ॥ १ ॥ ॐ नमः श्रीकिंनराय किंनरव्यन्तरेन्द्राय श्रीकिंनर सा० शेषं० । २९ । " रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहद्युतिः सज्जाम्बूनदपुष्पवर्णव सनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः खामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥ १ ॥ ॐ नमः श्रीकिंपुरुषाय किंनरव्यन्तरेन्द्राय किंपुरुष सा० शेषं० । ३० । “ शरदुद्गतचन्द्रदेह रुक फलि - नीर्ना लवरेण्यवस्त्रभाक् । कृतचम्पकभूरुहो ध्वजे विपदं सत्पुरुषो निहन्तु नः ॥ १ ॥ तिष्टवजातौ । ॐ नमः श्रीसत्पुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीसत्पुरुष सा० शे० । ३१ । " शशाङ्कमणिसंकुलद्युतिविराजिताङ्गः सदा
For Private & Personal Use Only
ainelibrary.org