________________
वस्त्रः। हरिणमृगारियुतोडतकेतुर्भद्रकरः प्रभुरस्तु वशिष्ठः॥१॥” उपचित्रा।ॐनमः श्रीवशिष्ठाय द्वीपभवनपतीन्द्राय श्रीवशिष्ठ सा० शेषं० । १२ । “पयोदनिर्मुक्तशशाङ्कसत्करः प्रभाभिरामद्युतिरश्वकेतनः। कलिन्दकन्याजलधौतकालिमा सुवर्णवस्त्रो जलकान्त उत्तमः॥१॥" वंशस्थम् । ॐ नमः श्रीजलकान्ताय उदधिभवनपतीन्द्राय जलकान्त सा० शे० ।१३। “कैलासलास्योद्यतयज्ञसूदनप्रख्याङ्गकान्तिः कलिताश्वलाञ्छनः । भग्नेन्द्रनीलाभशिवातिरोचनः श्रेयःप्रबोधाय जलप्रभोस्तु नः॥१॥" इन्द्रवं। ॐ नमः श्रीजलप्रभाय उदधिभ० श्रीजलप्रभ सा० शेषं । १४ । कनककलितकान्तिरम्यदेहः कुमुदविततिवर्णवसुधारी । धवलकरटिकेतु राजमानोप्यमितगतिरिहास्तु विघ्नहर्ता ॥१॥” जगत्याम् । ॐ नमः श्रीअमितगतये दिग्भवनपतीन्द्राय श्रीअमितगते सा० शेषं० । १५ । “कृतमालसमातिदेहधरः कलधौतदलोपमवस्त्रधरः । सुरवारणकेतुवरिष्ठरथो मितवाहनराट्र कुरुतात् कुशलम् ॥१॥" जगत्याम् । ॐ नमः श्रीमितवाहनाय दिगभव. श्रीमितवाहन सा० शेषः । १६ । “लसचारुवैराटकोदञ्चिकायः प्रवालाभशिग्युग्ममिष्टं दधानः । मरुद्वाहिनीवाहनप्रष्ठकेतुः सवेलम्बदेवेश्वरः स्तान्मुदे नः ॥१॥" भुजङ्गप्रयातं । ॐ नमः श्रीवेलम्बाय वायुभवनपतीन्द्राय श्रीवेलम्ब सा० शेषं ।१७। “नवार्कसंस्पृष्टतमालकायरुक सुपक्कबिम्बोपमवर्णकर्पटः।सुतीक्ष्णदंष्टं मकरं ध्वजे वहन् प्रभञ्जनोऽस्त्वामयभञ्जनाय नः॥१॥” वंशस्थं । ॐ नमः श्रीप्रभञ्जनाय वायुभवन. श्रीप्रभञ्जन सा० शेषं०।१८। “तप्तकलधौतगात्रातिभ्राजितश्चन्द्रकिरणाभवस्त्रैरभ्राजितः । वर्द्धमानध्वजः शक्रविभाजितो घोषनामा शिवे
Jain Education in
a
l l
For Private & Personal use only
X
www.jainelibrary.org