________________
आचार
दिनकरः
॥ १६३ ॥
Jain Education Intern
सारखता अनिमिषा जयन्ति वीणानिनादभृतः ॥ १ ॥ ॐ नमः सारस्वतेभ्यो लौकान्तिकेभ्यः सारखताः सायुधाः सवानाः सपरिच्छदाः इह प्रतिष्ठामहोत्सवे आगच्छत इदमर्घ्यं पाद्यं बलिं चरुं गृह्णीत संनिहिता भवत २ खाहा जलं गृह्णीत गन्धं गृह्णीत पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोप चारान् गृह्णीत शान्तिं कुरुत तुष्टिं कुरुत पुष्टिं कु० ऋद्धिं कु० वृद्धिं कु० सर्वसमीहितानि यच्छत २ खाहा । १ । “आदित्यसमशरीरकान्तयोरुणसमानवरवसनाः । आदित्याः श्वेततुरंगवाहनाः कमलहस्ताश्च ॥ १ ॥ ॐ नमो आदित्येभ्यो लौकान्तिकेभ्यः आदित्याः सायुधाः शे० पू० । २ । " नीलाम्बराः कपिलकान्तिधारिणश्छागवाहनासीनाः । शकटीकरा वरेण्या दहन्तु जडतां च वह्निसुराः ॥ १ ॥” ॐ नमो वह्निभ्यो लौकान्तिकेभ्यो वह्नयः सायुधाः शेषं पूर्ववत् । ३ । “घनवर्णा झषगमनाः पीतसुसिचयाः खहस्तधृतपाशाः । वरुणा वरेण्यबुद्धिं विदधतु सर्वस्य संघस्य ॥ १ ॥ ॐ नमो वरुणेभ्यो लौकान्तिकेभ्यो वरुणाः सायुधाः शेषं पू० । ४ । “नीला मयूरपत्राः सुपीतवसनाश्च धान्ययुतहस्ताः । रचयन्तु गर्दतोयाः सर्व वाञ्छितफलं सुहृदः ॥ १ ॥ ॐ नमो गर्दतोयेभ्यो लौकान्तिकेभ्यो गर्दतोयाः सायु० शे० । ५ । " शशधरकरसमवर्णा हरहारसमानव सनकृतशोभाः । हंसासनाः करयुगे सरोजसहिताः सदा तुषिताः ॥ १ ॥ ॐ नमस्तुषितेभ्यो लौका० सायु० शेषं पू० । ६ । " नरयानस्था धृतपञ्चवर्णवसनाः प्रियंगुतुल्यरुचः । अन्याबाधा वीणासनाथहस्ताः शुभं ददताम् ॥ १ ॥” ॐ नमोऽव्याबाधेभ्यो लौका ० अव्याबाधाः सा० शेषं पू० । ७ । “श्यामाश्च शोणवसनाः कुरङ्गयानाः कुठार
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १६३ ॥
v.jainelibrary.org