________________
Jain Education I
नव्यै वि० श्रीमानवि इ० शेषं० । १२ । “खड्गस्फुरत्स्फुरितवीर्यवदूर्ध्वहस्ता सद्दन्दशूकवरदा परहस्तयुग्मा । सिंहासनाब्जमुदतारतुषारगौरा वैरोट्ययाप्यभिधयास्तु शिवाय देवी ॥ १ ॥ ॐ जं जः नमः श्रीवैरोट्यायै विद्या० श्रीवैरोट्ये इह० शेषं० । १३ । “सव्यपाणिघृतकार्मुकस्फरान्यस्फुरद्विशिखखङ्गधारिणी । विद्युदाभतनुरश्ववाहनाच्छुसिका भगवती ददातु शम् ॥ १ ॥ ॐ अं एँ नमः श्रीअच्छुप्तायै विद्या० श्रीअच्छुप्ते इह० शेषं० । १४ । “हंसासनसमासीना वरदेन्द्रायुधान्विता । मानसी मानसीं पीडां हन्तु जाम्बूनदच्छविः ॥ १ ॥ " ॐ ह्रीं अर्ह नमः श्रीमानस्यै वि० श्रीमानसि इह० शेषं० | १५ | "करखङ्गरनवर दाख्यपाणिभृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी ॥ १ ॥ ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्या० भ० श्रीमहामा० इह० शेषं० । १६ । ॐ ह्रौं नमः षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहूनाभ्यः सपरिकराभ्यः विघ्नहरीभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० प्रतिः आगच्छन्तु २ इदमर्घ्यं पाद्यं । बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तुखाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा अनेन सर्वविद्यादेवीनां परिपिण्डितपूजा ॥ ततश्चतुर्थवलये “सम्यग्दृशः सुमनसो भवसप्तकान्तःसंप्राप्तनिर्वृतिपथाः प्रथितप्रभावाः । लौकान्तिका रुचिरकान्तिभृतः प्रतिष्ठाकार्ये भवन्तु विनिवारितसर्वविघ्नाः ॥१॥" अनेन वृत्तेन लौकांतिकवलये पुष्पाञ्जलिप्रक्षेपः । " शुभ्रामरालगमनाः प्रियंगुपुष्पाभवसनकृतशोभाः ।
For Private & Personal Use Only
ww.jainelibraryg