________________
Jain Education In
होत्सवे आगच्छन्तु २ इदमर्घ्यं पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु खाहा जलं गृह्णन्तु २ गन्धं गृह्णन्तु २ पुष्पं गृह्णन्तु २ अक्षतान् गृ० प० गृ० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ खाहा । अनेन सर्वजिनजननीनां परिपिण्डितपूजा ॥ ॥ अथ तृतीयवलये " यासां मन्त्रपदैर्विशिष्टम हिमप्रोद्भूतभृत्युत्करैः षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात्क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥ १ ॥" अनेन वृत्तेन तृतीयवलये पुष्पाञ्जलिक्षेपः । " शङ्खाक्षमालाशरचापशालिचतुः करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा श्रीरोहिणी सिद्धिमिमां ददातु ॥ १ ॥ ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह प्रति० आगच्छ २ इदमर्घ्य पाद्यं बलिं चरुं गृहाण २ संनिहिता भव २ खाहा जलं गृहाण २ पुष्पं २ अक्षतान् २ फलानि २ मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं० २ पुष्टिं० २ ऋद्धिं० २ वृद्धिं० २ सर्वसमीहितानि कुरु २ स्वाहा । १ । “शक्तिसरोरुहहस्ता मयूरकृतयानलीलया कलिता । प्रज्ञप्तिर्विज्ञप्तिं शृणोतु नः कमलपत्राभा ॥ १ ॥” ॐ हँसँक्लीं नमः श्रीप्रज्ञत्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इ० शे० । २ । " सशृङ्खल गदाहस्ता कनकप्रभविग्रहा । पद्मासनस्था श्रीवज्रशृङ्खला हन्तु नः खलान् ॥ १ ॥ ॐ नमः श्रीवज्रशृङ्खलायै विद्यादेव्यै भगवति वज्रशृङ्खले इह० शेषं पूर्ववत् । ३ । “निस्त्रिंश १ वज्र २ फलको ३ त्तमकुन्त ४ युक्तहस्ता सुतप्तविलसत्कलधौतकान्तिः । उन्मन्त
•
For Private & Personal Use Only
www.jainelibrary.org