________________
आचार
दिनकरः
॥ १६१ ॥
Jain Education Inter
करुणावताम् ॥ १ ॥ ॐ नमः श्रीश्रिये श्री कुन्थुनाथजनन्यै भगवति श्रीः इह० शे० । १७ । “ सुदर्शनस्य कान्तायै नमो हस्तिपुरस्थिते । तुभ्यं देवि महादेवि भृत्यकल्पद्रुमप्रभे ॥ १ ॥ ॐ नमः श्रीदेव्यै अरनाथजनन्यै भगवति श्रीदेवि इ० शे० । १८ । “मिथिलाकृतसंस्थाना कुम्भभूपालवल्लभा । प्रभावती प्रभावत्यै देहस्थित्यै सदास्तु नः ॥ १ ॥ ॐ नमो भगवत्यै श्रीप्रभावत्यै श्रीमल्लिनाथजनन्यै भगवति श्रीप्रभावति इ० शे० । १९ । “श्रीमद्राजगृहावासा सुमित्रक्ष्मापतिप्रिया । पद्मा पद्मावबोधं नः करोतु कुलवर्द्धिनी ॥ १ ॥ ॐ नमः श्रीपद्मायै श्रीसुव्रतस्वामिजनन्यै भगवति श्रीपद्मे इ० शे० । २० । “मिथिलाकृतसंस्थाने विजयक्ष्मा पवल्लभे । वप्रे त्वं वप्रतां गच्छ क्रोधादिद्विड्मयादिषु ॥ १ ॥ ॐ नमः श्रीवप्रायै नमिनाथजनन्यै भगवति श्रीवप्रे इ० शे० । २१ । श्रीसौर्यपुरसंसक्ता समुद्रविजयप्रिया । शिवा शिवं जिनार्चायां प्रददातु दयामयी ॥ १ ॥ ॐ नमः श्रीशिवायै नेमिनाथजनन्यै भगवति श्रीशिवे इ० शे० । २२ । " वाणारसीकृतस्थानेऽश्वसेनाङ्गपरिष्टिते । वामे सर्वाणि वामानि निकृन्तय जिनाचने ॥ १ ॥ ॐ नमः श्रीवामाये श्रीपार्श्वनाथजनन्यै भगवति श्रीवामे इ० शे० । २३ । “श्रीमत्कुण्डपुरावासे सिद्धार्थनृपवल्लभे । त्रिशले कलयाजस्रं संघे सर्वत्र मङ्गलम् ॥ १ ॥ ॐ नमः श्रीत्रिशलायै श्रीवर्द्धमानखामिजनन्यै भगवति श्रीत्रिशले इ० शे० । २४ । ॐ नमो भगवतीभ्यः सर्वजिनजननीभ्यो विश्वमातृभ्यो विश्वहिताभ्यः करुणात्मिकाभ्यः सर्वदुरितनिवारणीभ्यः समस्तसंताप विच्छेदिनीभ्यः सर्ववाञ्छितप्रदाभ्यः सर्वाशापरिपूरणीभ्यः भगवत्यो जिनजनन्यः इह प्रतिष्ठाम
For Private & Personal Use Only
विभागः २ प्रतिष्ठा
विधिः
॥ १६१ ॥
ainelibrary.org