SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ॥ १६० ॥ फलानि गृहाण २ मुद्रां गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २खाहा |१| "अयो ध्यापुरसंसक्ता जितशत्रुनृपप्रिया । विजया विजयं दद्याजिन पूजामहोत्सवे ॥ १ ॥ ॐ नमः श्रीविजयायै * श्री अजितखाभिजनन्यै भगवति श्रीविजये इह प्रति० शेषं पूर्ववत् । २ । “ श्रावस्तीरचितावासा जितारिहृद्यप्रिया । सेना सेनां परां हन्यात्सदा दुष्टाष्टकर्मणाम् ॥ १ ॥ ॐ नमः श्रीसेनायै श्रीसंभवखामिजनन्यै भगवति श्रीसेने इह प्रति० शेषं पूर्ववत् । ३ । “विनीताकृतवासायै प्रियायै संवरस्य च । नमः सर्वार्थसिद्ध्यर्थं सिद्धार्थायै निरन्तरम् ॥ १ ॥ ॐ नमः श्रीसिद्धार्थायै श्रीमदभिनन्दनखाभिजनन्यै भगवति श्रीसिद्धार्थे इह प्रतिष्ठा महोत्सवे० शेषं पूर्ववत् । ४ । " कोशला कुशलं धात्री मेघप्रमदायिनी । सुमङ्गला मङ्गलानि कुरु+ ताजिन पूजने ॥ १ ॥ ॐ नमः श्रीसुमङ्गलायै सुमतिखामिजनन्यै भगवति श्रीसुमङ्गले इह प्रति० शेषं पूर्ववत् । ५ । “घरधाराधरे विद्युत्कोशाम्बी कुशलप्रदा । सुसीमा गतसीमानं प्रसादं यच्छतु ध्रुवम् ॥ १ ॥” ॐ नमः श्रीसुसीमायै श्रीपद्मप्रभखाभिजनन्यै भगवति सुसीमे इह प्रति० शेषं पूर्ववत् । ६ । “वाणारसीरसाधात्रीप्रतिष्ठे सुप्रतिष्ठिता । पृथ्वी पृथ्वीं मतिं कुर्यात् प्रतिष्ठादिषु कर्मसु ॥ १ ॥ ॐ नमः श्रीपृथ्वै श्रीसुपार्श्वखामिजनन्यै भगवति श्रीपृथ्वि इह प्रति० शेषं पूर्ववत् । ७ । “देवि चन्द्रपुरीवासे महसेननृपप्रिये । लक्ष्मणे लक्ष्मनिर्मुक्तं सज्ज्ञानं यच्छ साधुषु ॥ १ ॥” ॐ नमः श्रीलक्ष्मणायै श्रीचन्द्रप्रभखामिजनन्यै भगवति आचार दिनकरः Jain Education Inter For Private & Personal Use Only विभागः २ प्रतिष्ठा विधिः ॥ १६० ॥ ainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy