________________
भगवन् ज्ञान इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ वाहा। जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २ फलानि गृहाण २ मुद्रां गृहाण २ धूपं| गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २ स्वाहा । ततः-"अविरतिविरतिभ्यां जातवेदस्य जन्तोभवति यदि विनष्टं मोक्षमार्गप्रदायि । भवतु विमलरूपं दर्शनं तन्निरस्ताखिलकुमतविषादं देहिनां बोधि. भाजाम् ॥१॥" ॐ नमो दर्शनाय मुक्तिमार्गप्रावणाय निष्पापाय नियन्धनाय निरञ्जनाय निर्लेपाय भगव| दर्शन इह प्रति० शेषं पूर्ववत् । ततः-"गुणपरिचयं कीर्ति शुभ्रां प्रतापमखण्डितं दिशति यदिहामुत्र स्वर्ग शिवं च सुदुर्लभम् । तदमलमलं कुर्याचित्तं सतां चरणं सदा जिनपरिवृढरप्याचीर्ण जगत्स्थितिहेतवे ॥१॥" ॐ नमश्चारित्राय विश्वत्रयपवित्राय निर्मलाय स्वर्गमोक्षप्रदाय वाञ्छितार्थप्रदाय भगवंश्चारित्र इह प्रतिष्ठा० शेषं पूर्ववत् ॥ ततो द्वितीयवलये-"महादयामयहृदः श्रीतीर्थकरमातरः। प्रसन्नाः सर्वसंघस्य वाञ्छितं ददतां परम् ॥१॥” अनेन द्वितीयवलये जिनमातृयुक्ते पुष्पाञ्जलिक्षेपः "इक्ष्वाकुभूमिसंभूता नाभिवामाङ्गसंस्थिता। जननी जगदीशस्य मरुदेवास्तु नः श्रिये ॥१॥" ॐ नमः श्रीमरुदेव्यै नाभिपत्यै श्रीमदादिदेवजनन्यै विश्वहिताय करुणात्मिकायै आदिसिद्धायै भगवति श्रीमरुदेवि इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं गृहाण २ संनिहिता भव स्वाहा जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २]
है
Www.jainelibrary.org
Jain Education
a
For Private &Personal use Only
l