________________
आचारदिनकरः
॥३८१॥
-CEOCHOOTOSESSAGARMER
तस्यैव परिकीर्तिता। किरीटं पञ्चशिखरमालू रूप्यमयी तथा ॥५॥" सामन्तपत्नीनामपि पदारोपः साम- विभागः२ न्तवदेव । शिष्याविधिः स एव । छत्रचामरवर्जितान्युपकरणानि सामन्तवत् । च्छिष्याविधिः स एव । इति । पदारोपपदारोपाधिकारे सामन्तपदारोपविधिः॥ ॥ अथ मण्डलेश्वरत्वं । तत्र मण्डलेश्वराः कियन्नगरपामाधिप- विधिः तयो महानृपसामन्ताज्ञावशंवदाः राजानका इति प्रसिद्धाः तेषां पदारोपो गुरुजनमहाभूपतिसामन्तकृतं तिलकमात्रमेव । शिष्या सामन्तवत् । तस्योपकरणानि यथा-"अश्वपत्तिमयं सैन्यं तथा वेत्रासनं पुनः ।। पटहो दुन्दुभिर्वाद्यं केतनं चामराङ्कितं ॥१॥ पटगेहानि शुभ्राणि रथश्चैकः खवाहने । मण्डलेशस्य वस्तूनि कल्पयेत्प्रभुतागमे ॥२॥ गजा रथाश्चामरे च सर्वछत्राणि वुक्ककं । ताम्रवाद्यं मत्स्यकेतुः प्रणामो जयपूर्वकः ॥३॥ पट्टाभिषेको नारीणां मण्डलेशपदार्पणं । आरोहश्चैव हस्त्यादौ गीतं वायं नृपान्तिके ॥४॥ भोजने जलपानादौ सुधावचनकीर्तनं । इत्यादिमण्डलेशानां न कदाचन विद्यते ॥५॥ इति पदारोपाधिकारे मण्डलेशपदस्थापनविधिः॥ ॥अथ देशमण्डलाधिपत्यं । तत्र देशमण्डलाधिपतयो राजधानीनगराधिपत्यवर्जिताः कियद्रामाधिपतयः ठकुरा इति लोकप्रसिद्धास्तेषां पदारोपविधिः मण्डलेश्वरवत् । किंच मण्डलेश्वरकृतेपि तिलके तेषां पदारोपो भवति । तेषामुपकरणानि ध्वजवेत्रासनरथारोहवर्जितानि मण्डलेश्वरवत् । तेषां पर्यङ्कबन्ध एव पर्षदि नतु वेत्रासनादि । शिष्या मण्डलेश्वरवत् । इति पदारोपो देशमण्डलाधिपत्यपदारोपविधिः॥ ॥ ग्रामाधिपतयस्तु खस्खैकग्रामवासिनः सामन्तमण्डलाधिपतीनां ग्रामाधिपत्ये तु तिल
42- 45CAR
८१॥
Jan Education Intel
For Private & Personal Use Only
www.jainelibrary.org