SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ अERICAREER वत्परिपालयेत् । तदपत्यान्यौरसवत्पोषयेः करुणापरा ॥१०॥ अत्यन्तविषयासक्तिं हृदि कुर्या न कर्हि चित् ।। राज्यव्यापारविषये न खेदं नित्यमाचरेः॥११॥ त्रिवर्गसाधनं कुर्या अविरोधात्परस्परं । इत्यादिशिक्षादानेन शिक्षयेन्महिषीं गुरुः ॥१२॥” अस्या उपकरणानि-"चामरे वर्णभृङ्गारश्छनं शिखिकलापजं । किरीटं पञ्चशिखरं वेत्रासनमनुत्तरं ॥ १३ ॥ चलने चामरमयी पताका मत्स्यकेतनं । गजारोहश्च पुरतो गीतं वाद्यं नरेन्द्रवत् ॥१४॥ इति पदारोपाधिकारे राज्ञीपदारोपविधिः ॥ __ अथ सामन्तपदारोपः । तत्र सामन्ता महीश्वरस्य सोदरास्तद्भुमिभागभुजो राजकुला इति प्रसिद्धाः। अथवा किंचिद्भूमिमण्डलखामिनो राजशब्दधारिणो मध्यस्थसप्तराज्याङ्गधृतो मुद्राश्वेतच्छनादिवर्जिता महाभूपत्याज्ञावशंवदाः सामन्ताः कथ्यन्ते तेषां पदारोपविधिः। तेषां वस्तुस्तोमः-सिंहासनश्वेतच्छत्रवर्णभृङ्गारुइन्द्रध्वजबुक्कासिंहनादाश्वेतपर्याणरक्तपटमण्डपामुद्रावर्जितो भूपतिवत् । अभिषेको नास्ति । तिलक एव विधेयः। खगुरुपितृभगिनीकरात् ततो महाभूपतिकरात् ।एतत्कर्ममन्त्रास्त एव । शिष्याविधिः स एव । खदेशानुसारेण विशेषश्चायं । “आज्ञा महामहीशस्य खण्डयन कदाचन । अत्यन्तबलिना नैव विरोधं कापि वर्धयः॥१॥" अस्योपकरणानि-"चतुरङ्गबलं चैव धवलं पटमण्डपं । वेत्रासनं चामरे च छत्रं शिखिकलापजं ॥२॥ केचिद्रक्तं च हरितं महाभूपसमर्पितं । छत्रं सामन्तवृन्दस्य कथयन्ति विचक्षणाः ॥३॥ मत्स्यध्वजादयः सर्वे केतनास्तस्य चाग्रतः । बुक्कवर्जितमातोयं पर्याणं श्वेतवर्जितं ॥४॥ आज्ञा खमण्डले चापि आ.दि.६५ Jan Education Interne For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy