________________
Jain Education Interagh
दारोपे विधिः सर्वोपि उपाध्यायपदस्थापनविधिवत् । केवलं मन्त्रप्रदानं नास्ति । तत्रानुज्ञा यथा- विधेयो वत्स भवता विवाहादिक्रियाक्रमः । संस्कारपाददशकं गृहिणां व्रतवर्जितं ॥ १ ॥ शान्तिकं पौष्टिकं चैव बल्यावश्यककर्म च । कुरुष्व न प्रतिष्ठां च प्रायश्चित्तानुयोजनं ॥ २ ॥ इति ब्राह्मणपदारोपे स्थानपतिपदारोपः ॥ ॥ कर्माधिकारिलक्षणं यथा- द्वादशव्रतसम्यक्त्वधारको वेदपारगः । दक्षः सर्वशास्त्रवेदी प्रमाद| रहितो गुणी ॥ १ ॥ साधुभक्तः सर्वकर्मकुशलश्च कलानिधिः । शूरः कृतज्ञो दाता च मन्त्रविद्राजरञ्जकः ॥२॥ पटुः प्रवक्ता धीरच साधुभक्तिपरायणः । विनीतो देशकालज्ञो विप्रः कर्माधिकारकृत् ॥ ३ ॥ अस्य पदारोपणविधिः स्थानपतिपदवत् । मन्त्रदानं नास्ति । अस्यानुज्ञा । " शान्तिकं पौष्टिकं चैव संस्कारव्रतवर्जितं । नृपसेवामपापां च तथाधिकृतमेव च ॥ १ देशग्रामपालनं च नृपमन्त्रिविसर्जनं । कुरुष्व सर्वकर्माणि पापमुतानि वत्स हे ||२||" इति ब्राह्मणपदारोपे कर्माधिकारपदारोपविधिः ॥ ॥ अत्र जैनब्राह्मणानां पूर्वमनन्ताः शाखा अभूवन् वेदचतुष्कं चानन्तशाखमभूत् अधुना च शाखाचतुष्टयं विप्राणां वेदस्य चतुष्कं तथैव । यथा । इक्ष्वाकुशाखा १ गौतमशाखा २ प्राच्योदीच्यशाखा ३ नारदशाखा ४ एवं चतुःशाखा विप्रैः क्रमाचत्वारो वेदाः संहितापदक्रमादिभिः पठनीयाः इत्यावश्यकसिद्धान्तोक्तिः । इति पदारोपणाधिकारे ब्राह्मणपदारोपविधिः ॥
अथ क्षत्रियपदारोपविधिः ॥ तत्र नृपत्वं १ सामन्तत्वं २ मण्डलेश्वरत्वं ३ देशमण्डलाधिपत्यं ४ ग्रामाधि
For Private & Personal Use Only
www.jainlitrary.org