________________
आचारदिनकरः
॥ ३७६ ॥
Jain Education Inter
धाय गुरुः सर्वविधिमाचार्यपदवत्कुर्यात् । विशेषश्चायं । केवलं श्रीगौतममन्त्रदानं । अत्र स्वार्धासनारोपो न वासक्षेपश्च । अमुं वेदमन्त्रं पठेत् । ॐ अर्ह नमोऽर्हतेऽर्हदागमाय जगदुद्योतनाय जगच्चक्षुषे जगत्पापहराय जगदानन्दनाय श्रेयस्कराय यशस्कराय प्राणिन्यस्मिन् स्थिरं भवतु प्रवचनं अर्ह ॐ इति मन्त्रं त्रिः पठित्वा पौष्टिकदण्डकं पठेत् । गुरुः खयं न प्रणमति संघस्य वासाक्षतदानं पूर्ववत् । संघस्तु तं सर्वः प्रणमति । ततो गुरुस्तस्मै अनुज्ञां दद्यात् । अत्र गुरुर्यत्याचार्योपाध्याय सुसाधुगृहस्थाचार्यरूपः । अनुज्ञा यथा । " वत्स धार्य व्रतयुतं सम्यक्त्वं भवता दृढं । अर्हन्मते वर्जितं यत्कार्य प्राणात्यये न तत् ॥ १ ॥ व्रतारोपं परित्यज्य संस्कारा गृहिणां च ये । विधेयाश्चैव निःशङ्कं त्वया पञ्चदशापि ते ॥ २ ॥” आचार्यादीनामभावे शान्तिकं पौष्टिकं तथा । ........
1
|.........
॥ ३ ॥ ...... ----.-.........................दण्डवान् ॥ ४ ॥ एतान्येव हि कर्माणि विधेयानि त्वया सदा । इत्यनुज्ञाप्य तं शिष्यं तिलकेनापि वर्धयेत् । तत्रोत्सवविधिराचार्यपदवत् । इति पदारोपे उपाध्यायपदारोपविधिः ॥ ॥ स्थानपतिलक्षणं यथा । शान्तो जितेन्द्रियो मौनी षट्कर्मनिरतः सदा । द्वादशव्रतधारी च प्राज्ञः सर्वप्रजाप्रियः ॥ १ ॥ सर्वत्रापि हि संस्कारे निपुणः सर्वरञ्जकः । प्राञ्जलः सदयः सौम्यः सर्व कुर्वन्समंजसं ॥ २ ॥ बलिपूजादिकार्येषु कुशलो बोधिवासितः । ईदृशो योग्यतामेति स्थानपात्य ( १ ) र्द्विजोत्तमः ॥ ३ ॥ स्थानपतिप१ अत्रादर्शद्दयेपि क्वचिद्वम्थपातोऽनुमीयते ।
*************
*********
For Private & Personal Use Only
******************
विभागः २
पदारोपविधिः
॥ ३७६ ॥
www.jainelibrary.org