SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ॐE दिनकरः - आचार दलकादीनां पञ्चोदुम्बरकस्य च ॥७॥ परित्यागपरा नित्यं प्राञ्जलाः प्रियवादिनः । विद्याप्रवादपूर्वोत्थं मात्रिकं विभागः २ कल्पमार्हतं ॥ ८॥ जानन्तो जीवसंघाते सर्वत्रापि कृपापराः । आचार्यपदमर्हन्ति ईदृशा ब्राह्मणोत्तमाः॥९॥ पदारोपतेषामाचार्यपदस्थापनविधिरुच्यते यथा । सूरिपदोचिते लग्ने यतिराचार्य उपाध्यायो वा विशुद्धागमार्थज्ञःXI विधिः ॥३७५॥ साधुर्वा प्राप्ताचार्यपदो ब्राह्मणो वा पूर्वोक्तगुणसंयुतं धृतमात्रब्रह्मचर्य गृहिणं विप्रं कृतभद्राकरणं धृतशिखं पौष्टिककरणपूर्वकं शुभे चैत्ये धर्मागारे गृहे आरामे तीर्थे वा वामपाचे संस्थाप्य धृतकपरिधानोत्तरासङ्गं समवसरणाग्रतः प्रदक्षिणात्रयं कारयेत् । ततो द्वावपि शक्रस्तवपाठं कुरुतः वर्धमानस्तुतिभिः । ततः श्रुत १ शान्ति २ क्षेत्र ३ भुवन ४ शासन ५ वैयावृत्तकर ६देवताकायोत्सर्गस्तुतिकथनानि।ततः सम्यक्त्वदण्डकद्वादशवतोच्चारणं । ततो गुरुनिषद्यायामुपविशति । भाव्याचार्यस्तु त्यक्तनिषद्यो विनयवामनो गुरोरग्रे उपविशेत् । ततो गुरुः प्राप्ते लग्नसमये तस्य दक्षिणकर्णे षोडशाक्षरी परमेष्ठिमहाविद्यां श्रीगौतममन्त्रसहितां त्रिदद्यात् । ततः शिष्यो गुरुं समवसरणं त्रिप्रदक्षिणयित्वा संक्षिप्तशक्रस्तवं पठित्वा यदि यतिगुरुर्भवति तदा द्वादशावर्तवन्दनकं दद्यात् । गृहिणि च गुरौ नमोस्तु २ कथनपूर्वकं दण्डवत्प्रणामः कर्तव्यः । ततो गुरुः शिष्यं निजार्धासने खदक्षिणपार्श्व संनिवेश्य पूर्वोक्तरीत्याभिमश्रितवासान्क्षिपन् प्रकटखरेणा, वेदमन्त्र ॥३७५॥ पठेत् । यथा । ॐ अहं नमोऽहतेऽहत्प्रवचनाय सर्वसंसारपारदाय सर्वपापक्षयंकराय सर्वजीवरक्षकाय सर्वजगज्जन्तुहिताय अत्रामुकपात्रेस्तु सुप्रतिष्ठितं जिनमतं नमोस्तु तीर्थकराय तीर्थाय च शिवाय च शुभाय CARSA- CARS Jain Education Inters For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy