________________
* आचार्यपदोचितलग्ने स्वगुरुरन्यो वा कश्चिद्वयोवृद्धो ज्ञानवृद्धो गीतार्थाचार्यः पूर्ववद्वासाभिमन्त्रणं विधाय ।
वासक्षेपं कृत्वा गणधरविद्यया तिलकं करोति तदन्वये आचार्योपाध्यायसाधुसाध्वीश्रावकश्राविका अपि परमेष्ठिमनपाठपूर्व तथैव श्रीखण्डेन तिलकं कुर्वन्ति । ततो वृद्धगुरुः पूर्ववदभिमन्त्रितवासाक्षतदानं साधुश्राद्धेभ्यः करोति । ततो वृद्धाचार्य:-क्षमासमणाणं सुत्तेणं अत्थेणं तदुभयेणं गुरुगुणेहिं वुड्डाहि नित्थारग[पारगो होहि इत्युक्ते सर्वेपि वासाक्षतक्षेपं कुर्वन्ति । ततो वन्दनकविधिः पूर्ववत् । अन्येषामुपाध्यायसाध्वादीनां गणानुज्ञा गणमुख्यत्वकथनं वाचनानुज्ञाधिकारादवसेयं । इति पदारोपाधिकारे यतिपदारोपविधिः॥ ॥ अथ विप्राणां । तेषां च आचार्योपाध्यायस्थानपतिकर्माधिकारिभेदाचतुर्धा पदक्रमः । तत्राचार्याः शुद्धसम्यग्दृष्टयो द्वादशव्रतधरा अन्यदैवतलिङ्गिप्रणामसंभाषणसंस्तवविवर्जितास्त्यक्तसावद्याः दुष्प्रतिग्रहरहिता नित्यं कृतप्रत्याख्याना भवन्ति । तद्यथा-खभावादल्पसंतुष्टा अल्पभाषणतत्पराः । जिनागमात्परं नैव प
ठन्ति श्रुतमादरात् ॥१॥ नित्यं धौतवस्त्रभाजो द्वादशव्रतधारिणः । सम्यगभ्यस्ततत्त्वार्थाः प्रमाणग्रन्थवेदिन: 5॥२॥ प्रायः सावद्यविरता मिथ्याक्सङ्गवर्जिताः । धीराः शान्ता गुणोपेताः सर्वशास्त्रविदस्तथा ॥३॥ प्रतिष्ठादिसर्वकर्मकरणाभ्यासशालिनः प्रत्याख्यानरताः प्रायःप्रायःप्राशुकभोजिनः ॥४॥ नित्यस्नानरतादान्ता वाग्मिनो मन्नवेदिनः । षट्कर्मसाधनाव्यग्रहृदयास्ते द्विधैव हि ॥५॥ साधूपास्तिपरा नित्यं शुद्धवंशसमुद्भवाः । प्रायः कनकहस्ताश्च दुष्प्रतिग्रहवर्जिताः ॥ ६॥ प्राणात्ययेपि शूद्रान्नभोजनेऽतिपरामुखाः । वार्ताकमू
मा. दि.६४
Jain Education Inter 18
For Private & Personal Use Only
www.jainelibrary.org