________________
गच्छ २ स्वाहा । ततो नन्द्यावर्तपूजा। चलबिम्बे नन्द्यावर्तविधि विधाय नन्द्यावर्तोपरि प्रतिमा स्थापयेत् । स्थिरविम्बे तु निश्चलस्थिते बिम्बाग्रतः वेदिमध्ये वा नन्द्यावर्तपूजनं । तद्विधिश्चायं गुरुनिषद्यायामुपविश्य नन्द्यावर्त पूजयति, कर्पूरसंमिश्रश्रीखण्डसप्तलेपलिप्ते श्रीपर्णीपट्टे कपूरकस्तूरिकागोरोचनासंमिश्रकुंकुमरसेन प्रथमं नवकोणः प्रदक्षिणतया नन्द्यावर्तो लिख्यते । यथा मध्यावहिर्वलयक्रमः तन्मध्ये नन्द्यावर्त दक्षिणपाचे सौधर्मेन्द्रशक्रस्थापना वामे च ईशानेन्द्र स्थापना अधः श्रुतदेवतास्थापना तत्र सौधर्मेन्द्रः काञ्चनवर्णश्चतुर्भुजः गजवाहनः पञ्चवर्णवस्त्रावरणः पाणिद्वयेनाञ्जलिबद्धः एकपाणी अभयं एकपाणी वजं । ईशानेन्द्रस्तु श्वेतवर्णो वृषभवाहनः नीललोहितवस्त्रः चतुर्भुजः जयभृत् शूलचापभृत् २ करद्वयेनांजलिकृच्च । श्रुतदेवता श्वेतवर्णा श्वेतवस्त्रधारिणी हंसवाहना श्वेतसिंहासनासीना भामण्डलालंकृता चतुर्भुजा श्वेताजवीणालंकृतवामकरा पुस्तकमुक्ताक्षमालालंकृतदक्षिणकरा ततस्तत्परिधी वृत्तवेष्टनं बहिर्गृहाष्टकविरचनं तत्राष्टदलेषु क्रमेण न्यासः |ॐ नमोऽहं यः वाहा, ॐ नमः सिद्धेश्यः वाहा, ॐ नम आचार्येभ्यः स्वाहा, ॐ नमः उपाध्यायेभ्यः स्वाहा, ॐ नमः सर्वसाधुभ्यः स्वाहा, ॐ नमो ज्ञानाय स्वाहा, ॐ नमो दर्शनाय खाहा, ॐ नमश्चारित्राय स्वाहा । ततः परिधौ वृत्तवलयं तद्वाहिश्चतुर्दिक्षु चतुर्विशतिदलस्थापनं, तेषु क्रमेण स्थापनं यथा-ॐ नमो मरुदेव्यै स्वाहा १ ॐ नमो विजयायै खाहा २ ॐनमः सेनायै स्वाहा ३ ॐ नमः सिद्धार्थायै स्वाहा ४ ॐ नमो मङ्गलायै खाहा ५ ॐ नमः मुसीमायै स्वाहा ६ ॐ नमः पृथ्व्यै खाहा ७ ॐ नमो लक्ष्मणायै स्वाहा ८ ॐ नमो
For Private & Personal Use Only
Miljainelibrary.org
Jain Education Internet