________________
विभागः२ प्रतिष्ठाविधिः
आचार
निपततु सर्वोषधीवृन्दम् ॥ १॥” द्वादशं विष्णुक्रान्तादिशतमूलनानं । वृत्तं यथा-"अनन्तसुखसंघातकन्ददिनकरः
कादम्बिनीसमम् । शतमूलमिदं बिम्बस्नात्रे यच्छतु वांच्छितम् ॥१॥” त्रयोदशं शतावोदिसहस्रमूली
स्नात्रं वृत्तं-"सहस्रमूलसर्वर्द्धिसिद्धिमूलमिहार्हतः । स्नात्रे करोतु सर्वाणि वांछितानि महात्मनाम् ॥१॥" ॥१५३॥
ततो गुरुणा दृष्टिदोषघाताय सिद्धजिनमत्रो दक्षिणहस्तामर्शेन बिम्बे न्यसनीयः। मनो यथा-इहागच्छन्तु जिनाः सिद्धा भगवन्तः खसमयेनेहानुग्रहाय भव्यानां वाहा । अथवा हुँ क्षु हीं वीं ॐ भः वाहा। अथ लोहेनास्पृष्टसिद्धार्थरक्षापोहलिकाः सूरिणाभिमन्त्रिताः स्नात्रकारैः बिम्बदक्षिणकरे बन्धनीयाः। तदभिमन्त्रो यथा-ॐक्षा क्षीं क्ष्वी वीं स्वाहा । चन्दनतिलकं च विधेयं बिम्बस्य । ततो गुरुरूर्वीभूय कृताञ्जलिः जिनपुरतो विज्ञप्तिकां करोति । सायं-स्वागताः जिनाः सिद्धाः प्रसाददाः सन्तु, प्रसादं धिया कुर्वन्तु, अनुग्रहपरा भवन्तु, खागतमनुखागतम् । ततो गुरुरचलिमुद्रया मन्त्रपूर्वकं सुवर्णभाजनस्थमर्घ पूर्वोक्तं विम्बा-|
ग्रतो निवेदयेत् । मन्त्रो यथा ॐभः अर्घ प्रतिच्छन्तु पूजां गृह्णन्तु जिनेन्द्राः खाहा । ततः पुनर्दिक्पालाहानं ततेषां प्रत्येकमर्घदानं यथा-ॐ इन्द्राय सायुधाय सवाहनाय सपरिकराय इह प्रतिष्ठामहोत्सवे आगच्छ २
इदमध्ये गृहाण २ खाहा, एवं ॐ अग्नये सा० ॐ नैर्ऋताय सा०, ॐ वरुणाय सा०, ॐ वायवे सा०, ॐ कुबेराय सा०, ॐ ईशानाय सा० शेषं पूर्ववत् । ॐ नागेश्यः सा०, ॐ ब्रह्मणे सा०, एवं सायुधाय सवाहनाय कथनपूर्व अर्घ्यदानं । ततश्चतुर्दशं पुष्पस्नात्रं वृत्तं-"अधिवासितं समन्त्रैः सुमनःकिल्कराजितं तोयम् ।
REFEE FEEvere**
Jan Education interna
For Private & Personal Use Only
iv.jainelibrary.org